स्वरः – पवित्रा , बाडलुरुः
निर्माता – संस्कृतभारती-संस्कृतगीतम्(संस्कृतामृतम्)
लाइक, शेयर , सब्सक्राइब

अवनितलं पुनरवतीर्णा स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा: ॥

निपततु पण्डितहरशिरसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं
पुनरपि वहताज्जनमनसि
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्मविकारा: ॥

ग्रामं ग्रामं गच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थं
स्वक्लेशं न हि गणयेम
कृते प्रयत्ने किं न लभेत
एवं सन्ति विचारा: ॥ czytaj dalej

या माता संस्कृतिमूला
यस्या व्याप्तिस्सुविशाला
वाङ्मयरूपा सा भवतु
लसतु चिरं सा वाङ्माला
सुरवाणीं जनवाणीं कर्तुं
यतामहे कृतिशूरा: ॥

  • डा. नारायणभट्टः