जीवरक्षिका कविता

भारतभूमेः शिखरभूतः काश्मीरदेशः सरस्वत्याः विहारभूमिरिति कथ्यते। अतः एव सा जगद्गुरुशङ्कराचार्यैः काश्मीरपुरवासिनीति स्तुता वर्तते।

तस्यां पुण्यभूमौ बिल्हणनामक: महाकविः जन्म अलभत। सः गुर्जरनरेशस्य पुत्रीं संस्कृतं पाठयितुं नियुक्तः। गच्छता कालेन तस्याः प्रेमपाशैः बद्धः अभूत्।

एतद्विज्ञाय क्रुद्धो भूपतिः बिल्हणस्य वधमादिष्टवान्। वधस्थानगमनमार्गे कविः चाटुपद्यानि रचयित्वा गातुमारभत। तेषु एकमेवमासीत् –

भट्टिर्नष्टो भारविश्चापि नष्टो

भिक्षुर्नष्टो भीमसेनोऽपि नष्टः।

भुक्कुण्डोऽहं भूपतिस्त्वञ्च राजन्

भम्भावल्यामन्तकः सन्निविष्टः।

ट्टिः, भा रविः, भि क्षुः(बुद्धः) भी मसेनः एते सर्वे कालग्रासीभूताः। ‘भ’ वर्णमालां प्रविश्य यमः भु क्कुण्डपर्यन्तं समागतः वर्तते। भवान् भू पतिः।

पद्यमेतदाकर्ण्य भूपतिः ‘अग्रिमः अहमेव, भुक्कुण्डस्य अस्य मरणं यावत् विलम्बायते तावत् मम अन्त्यकालोऽपि दूरायते’ इति विचिन्त्य कविवर्यं मुमोच। तस्य चातुर्येण प्रसन्नचित्तः स्वसुतां प्रीत्या तस्मै प्रादात्।

कवेः प्राणाः कवितया रक्षिताः। बिल्हणेन तदवसरे रचितानां पद्यानां संग्रहः ‘चोरपञ्चाशिका’ इति प्रसिद्धः समभवत्।

✍🏻 महाबलभट्टः, गोवा