महाभारतस्य कालः!

एकदा महर्षिः नारदः लोकसञ्चारसमये श्रीकृष्णस्य दर्शनार्थं द्वारिकां गतवान्!

श्रीकृष्णः अपि यथाशक्यं नारदस्य सत्कारं कृतवान्!

अनन्तरं नारदः स्वीयं एकं संशयं निवारणाय भगवन्तं पृष्टवान् भगवन्! भवतः षोडशसहस्राधिकासख्यः सन्ति! तासु का भवति अधिकं स्निह्यति अथवा सर्वाः अपि समानरूपेण स्निह्यन्ति इति!

नारदस्य वचनं श्रुत्वा श्रीकृष्णस्य हासः आगतः!

तदा भगवान् उक्तवान्- भवतः संशयस्य उत्तरं परीक्षाणन्तरम् एव दातुं शक्नोमि इति!

मम शिरोवेदना अस्ति, यदि तासाम् अश्रूजलमिश्रिता पादेन मर्दिता च मृत्तिका मम ललाटे लेप्यते तर्हि मम शिरवेदनायाः उपशमनं भविष्यति इति भवान् ताभ्यः सूचनां ददातु इति श्रीकृष्णः नारदम् उक्तवान्!

मया असत्यं वक्तव्यं वा, च एतेन किं सिध्यति इति नारदः भगवन्तं पृष्टवान्!

एषा काचित् परीक्षा, केवलं भवान् तथैव वदतु इति श्रीकृष्णः नारदम् उक्तवान्!

तदा नारदः प्रथमं रुक्मिण्याः समीपं गत्वा सर्वं निवेदितवान्!

रुक्मिण्याः महद् दुःखम् अभवत्! किन्तु सा एतेन मम पापं भविष्यति इत्युक्त्वा तस्याः पादेन मर्दितां मृत्तिकां दातुं सज्जा नाभवत्!

अनन्तरं नारदः एवं प्रत्येकम् अपि समीपं गत्वा तथैव निवेदितवान् परन्तु तासु कापि तत् पापं कर्तुं नाङ्गीकृतवती!

अन्ते च नारदः वृन्दावनं राधायाः समीपं गतवान्! तत्र तेन दृष्टं राधा कृष्णस्य सङ्कीर्तनं कुर्वती नृत्यति आसीत्!

तदा नारदः राधायै श्रीकृष्णस्य शिरोवेदना परिहारोपायं च सर्वं निवेदितवान्!

भगवतः शिरोवेदना इति श्रुत्वा राधायाः महद् दुःखम् अभवत्!

तस्याः नेत्राभ्याम् अश्रूणि आगतानि! अश्रूजलं भूमौ पतित्वा भूमिः आर्द्रा अभवत्!

तदा राधा पादेन मर्दयित्वा तां मृत्तिकां नारदाय दत्तवती!

भवत्याः पादेन मर्दिता मृत्तिका यदि भगवतः ललाटे लेप्यते चेत् भवत्याः पापं भवेत् ननु, भवती विस्मृतवती वा इति नारदः राधां पृष्टवान्!

तदा राधा उक्तवती – भगवतः निमित्तं मम पापं वा भवतु नरकं वा गच्छामि इति!

तदा नारदः ततः द्वारिकाम् आगत्य श्रीकृष्णस्य समीपं प्रवृत्तं सर्वम् उक्तवान्!

इदानीं भवतः प्रश्नस्य उत्तरं प्राप्तवान् वा इति श्रीकृष्णः नारदं पृष्टवान्!

नारदः इदानीं ज्ञातवान् उक्तवान् च- यत्र निस्स्पृहतया आत्मसमर्पणं भवति तत्र प्रेमः, भक्तिः प्रीतिः च भवति इति!

🌷🌹

-प्रदीपनाथ: