शिलादित्यः इति नामकः एक राजा आसीत्!

एकदा सः मन्त्रिणा सह राज्यभ्रमणाय गतवान् आसीत्!

मार्गे गमनसमये तेन महाराजेन एका प्रस्तरमूर्ति दृष्टा!

मूर्तेः सर्वम् आभूषणं वस्त्रं च प्रस्तरेण निर्मितम् आसीत्!

मूर्तिं दृष्ट्वा महाराजः मन्त्रिणं पृष्टवान् भोः मन्त्रिन्! अस्याः मूर्तेः निर्माणं केन कारितम् इति!

मन्त्री तदा उत्तरितवान् हे राजन्! भवतः पितामहः एव अस्याः मूर्तेः निर्माणं कारितवान् आसीत्!

तदा महाराजः उक्तवान् अहो! मम पितामहः तु बहु पूर्वं मृतः अभवत् परन्तु तेन निर्मिता इयं मूर्तिः अद्यापि यथापूर्वम् अस्ति एव!

कारणम् अस्याः मूर्तेः वस्त्रमपि प्रस्तरेण निर्मितम् अस्ति!

अहमपि यदि प्रस्तरेण निर्मितं वस्त्रं धरामि तर्हि ममापि मृत्युः न भविष्यति इति महाराजः चिन्तयित्वा मन्त्रिणम् आदिष्टवान् हे मन्त्रिन्! मह्यमपि प्रस्तरेण निर्मितं वस्त्रं कस्मात्चिदपि आनीय ददातु इति!

मन्त्री तदा मन्दं हसन् उक्तवान् हे राजन्! मनुष्यस्य कृते प्रस्तरेण निर्मितं वस्त्रं कदापि न सम्भवेत्!

परन्तु महाराजः तु मन्त्रिणः वचनं श्रुत्वा कुपितः अभवत् अकथयत् च केनापि प्रकारेण मह्यम् आवश्यकम् एव एतद् वस्त्रम् अन्यथा अहं भवते मृत्युदंडं प्रदास्यामि! तदर्थम् अहं भवन्तम् एकसप्ताहपर्यन्तं समयं दत्तवान् अस्मि इति!

मन्त्री तदा भीतः अभवत्! तस्य मुखं मलिनं जातम् आसीत्! विषादेन सः स्वगृहं गतवान्!

गृहे तस्य पुत्री हिमावती तं दृष्ट्वा पृष्टवती हे पितः! अद्य किम् अभवत्? भवान् किमर्थम् एवं चिन्तायाम् अस्ति! कुत्रापि युद्धम् अभवत् वा इति!

न पुत्रि न! मम सप्तदिनेभ्यो अन्तरे मृत्युः भविष्यति इत्युक्त्वा सर्वं वृत्तान्तं स्वपुत्रीं श्रावितवान् मन्त्री!

एतत् सर्वं श्रुत्वा सा हिमावती किञ्चित् कालपर्यन्तं चिन्तयित्वा उक्तवती हे पितः! भवान् एतस्य चिन्तां मा कार्षीत्! एतस्य उपायम् अहं चिन्तयामि, भवान् सप्तदिनपर्यन्तं गृहे एव तिष्ठतु इति!

षड् दिनानि अतीतानि सप्तमे दिने सा हिमावती राजास्थानं गतवती! तां दृष्ट्वा महाराजः उक्तवान् किं भवत्याः पिता मम वस्त्रं सज्जीकृतवान्?

आम्! परन्तु हे राजन्! मम पिता तु तस्मिन् कार्ये संलग्नः अस्ति, कार्यं किञ्चित् अवशिष्टम् अस्ति , अहम् अत्र आगतवती यद् एकं वस्तु अपेक्षितं वर्तते इति!

तदा महाराजः उक्तवान्! किम् अपेक्षितं वर्तते सर्वम् अस्ति राजभाण्डारे यदिच्छति तद् नयतु इति!

तदा सा हिमावती उक्तवती हे राजन्! मम पिता उक्तवान् यत् तस्य युतकस्य सीवनं केवलं जलेन निर्मितया सूचिकया भवितुम् अर्हेत् अतः भवान् मह्यं जलेन निर्मिताम् एकां सूचिकां ददातु इति!

तदा महाराजः तस्याः वचनं श्रुत्वा चिन्तामग्नः अभवत्! कथम् एतत् सम्भवेत्!

तदा महाराजः अपि तां हिमावतीं उक्तवान् अस्तु, प्रस्तरेण निर्मितस्य युतकस्य मम नास्ति प्रयोजनम्!

इदानीं भवती गृहं गत्वा भवत्याः पितरम् अत्र राजास्थाने प्रेषयतु इति!

महाराजस्य वार्तां श्रुत्वा मन्त्री चिन्तामुक्तः अभवत्!!

कन्यादिनस्य हार्दाः शुभाशयाः अभिनंदनानि च!!

🌹🌹

-प्रदीपः!!