कश्चन बालकः आसीत्। तस्य नाम कमलः इति।

सः कमलः शिरस्त्राणि क्रीणाति तेषां विक्रयणं च करोति स्म।

एकदा सः शिरस्त्राणां विक्रयणार्थं विपणिं गच्छति स्म।

मार्गे अरण्यम् आसीत्। सः पादाभ्यां गच्छन् आसीत् अतः सः श्रान्तः अभवत्।

अरण्ये सः तदा एकस्य वृक्षस्य अधः शिरस्त्रपेटिकां स्थापयित्वा विश्रामं कृतवान्।

तदा एव तस्य निद्रा अपि आगता आसीत् अतः सः वृक्षस्य अधः निद्रामपि कृतवान्।

वृक्षस्य उपरि केचन वानराः आसन्। तं कमलं निद्रावस्थायां च पेटिकां दृष्ट्वा एकः वानरः वृक्षात् अधः तस्य समीपम् आगतवान्।

पेटिकां च उद्घाट्य शिरस्त्राणि दृष्ट्वा एकं शिरस्त्रं स्वीकृत्य तस्य शिरसि धृतवान्।

तं दृष्ट्वा अन्ये अपि सर्वे वानराः आगत्य एकैकं शिरस्त्रं स्वीकृत्य पुनः वृक्षम् आरुह्य वृक्षस्य उपरि गत्वा उपविष्टवन्तः आसन्।

किञ्चित् कालानन्तरम् सः कमलः जागरित्वा दृष्टवान् तस्य सर्वाणि अपि शिरस्त्राणि वानराः नीत्वा वृक्षस्य उपरि उपविशन्ति इति।

सः तदा चिन्तितवान् यत् एतानि कथं आनेतुं शक्यानि इति।

सः एकं दण्डं स्वीकृत्य वृक्षस्य उपरि क्षिप्तवान्। सर्वे वानराः अपि तदा वृक्षस्य शाखाः त्रोटयित्वा तस्य उपरि क्षिप्तवन्तः आसन्।

सः तदा पुनः एकं शिलाखण्डं स्वीकृत्य वानराणाम् उपरि क्षिप्तवान् तदा ते वानराः वृक्षस्य फलानि स्वीकृत्य अधः क्षिप्तवन्तः आसन्।

एवं तेषां वानराणाम् आचरणं दृष्ट्वा सः ज्ञातवान् यत् वानराः अनुकरणशीलाः इति।

तदा सः कमलः एकम् उपायं विचिन्त्य सः स्वकीयं शिरस्त्रं स्वीकृत्य वृक्षस्य उपरि क्षिप्तवान्।

तदा ते सर्वे अपि वानराः शिरस्त्राणि सर्वाणि अधः क्षिप्तवन्तः आसन्।

कमलः तदा सर्वाणि शिरस्त्राणि स्वीकृत्य ततः शीघ्रं निर्गतवान्।

-प्रदीपः!