महर्षिः शुकः महान् तपस्वी आसीत्!

सः प्रतिदिनं तपः आचरति स्म!

देवलोकस्य अप्सरा रम्भा तस्य महर्षेः तपोभङ्गं कर्तुं इष्टवती!

अतः सा रम्भा महर्षेः समीपम् आगत्य स्वीया हावभावादिविलासैः तस्य मनः आक्रष्टुं प्रयत्नं कृतवती!

किन्तु सः महर्षिः कश्चिदपि विचलितः न अभवत्!

तथापि रम्भा स्वीयं प्रयत्नं न त्यक्तवती!

तदा महर्षिः शुकः एव तां पृष्टवान् देवि! भवती किमर्थं मम मनः आक्रष्टुं प्रयत्नं करोति इति!

तदा रम्भा उक्तवती! अहं भवन्तं तादृशरसपानं कारयितुं इच्छामि यद् भवता जीवने कदापि न कृतम् इति!

किन्तु तदा महर्षिः उक्तवान् देवि! अहं तु भगवतः पादयोः रसपानं प्रतिक्षणं कुर्वन् एव अस्मि , तस्मात् सुखात् अहं क्षणमपि वञ्चितः भवितुं न इच्छामि इति!

तथापि रम्भा स्वीयं प्रयत्नं न त्यक्तवती, सा निराशा न अभवत्!

सा स्वीयं सौन्दर्यं विविधैः प्रकारैः वर्णयितुम् आरब्धवती तम् उक्तवती च! भवान् नारीशरीरस्पर्शस्य सुखं न जानाति एव! तादृशं सुखं यदि भवान् न अनुभवति तर्हि भवतः जीवनमेव व्यर्थम् इति!

तदा शुक महर्षिः विनयेन उक्तवान् देवि! भवत्याः वचनादेव अहं ज्ञातवान् यत् नारीशरीरस्पर्शस्य तादृशं सुखं भवति! अस्तु, यदि शक्यं तर्हि अहमपि तादृशं सुखं अनुभवितुम् इच्छामि!

तदर्थं यदि भगवत्कूपया मम पुनरपि मनुष्य जन्म भवेत् तर्हि अहं भवद्दृश्याः पूज्यायाः मातुः उदरे नवमासपर्यन्तम् उषित्वा एतत् सुखम् अनुभविष्यामि!

इदानीं तु मया तपः आचरणीयम्, क्षन्तव्यः अयं जनः इति!

महर्षेः वचनं श्रुत्वा सा रम्भा विस्मिता अभवत् पुनः स्वर्गलोकं प्रति प्रत्यागतवती च इति!

🌹🌷

-प्रदीपः!!