पुराकाले हस्तिनापुरं परीक्षितराजः पालयति स्म!

कस्यचित् मुनेः शापः एवम् आसीत् यत् तस्य परीक्षितराजस्य सर्पदंशने सप्तदिनेभ्यः अन्तरे मरणं भविष्यति इति!

तस्मात् सः शुकमहर्षेः मुखात् भागवतकथां शृणोति स्म!

षड् दिनानि अतीतानि, श्वः एव मम मरणं भविष्यति इति चिन्तयित्वा तस्य शरीरं कम्पते स्म मुखं च शुष्कं जातम् आसीत्!

तद्दृष्ट्वा महर्षिः एकां कथां श्रावयितवान्!

कश्चन महाराजः आसीत्! एकदा सः राज्यभ्रमणाय अश्वम् आरुह्य गतवान्!

मार्गे अरण्यम् आसीत्!

तदा एव रात्रौ अभवत्! वृष्टिः अपि आरब्धा!

रात्रौ कुत्र यापयामि इति चिन्तयित्वा सः इतस्ततः धावन् आसीत्!

तदा एव दूरे एकः दीपः तेन दृष्टः! दीपम् अनुसृत्य सः महाराजः धावितवान्!

दीपस्य समीपं गत्वा एकं जीर्णकूटिरं दृष्टवान्!

कूटिरस्य अन्तः एक व्याधः आसीत्!

सः व्याधः चलितुं न शक्नोति तत्रैव सः मलमूत्रस्य विसर्जनं करोति तत्र भोजनम् अपि करोति स्म!

कूटिरस्य अन्तः च तं परितः दुर्गन्धः आसीत्!

कष्टेन अत्रैव तिष्ठामि इति चिन्तयित्वा महाराजः व्याधस्य अनुमतिं गृहीतवान्!

महदाश्चर्यं यत् प्रातःकाले सः महाराजः तस्मात् गृहात् गन्तुम् एव न इच्छति स्म!

व्याधेन सह तस्य विवादम् अपि अभवत्!

अतः हे राजन् ( परीक्षितम् उद्दिश्य) किम् इदम् उचितम्?

को सः महाराजः? इदं न उचितम् इति परीक्षीतराजः उक्तवान्!

तदा महर्षिः उक्तवान् आत्मारूपी भवान् एव सः महाराजः दुर्गन्धयुक्तशरीरं त्यक्त्वा गन्तुं न इच्छति इति!

महर्षेः वचनं श्रुत्वा महाराजस्य ज्ञानोदयः अभवत्! भयमपि त्यक्तवान्!

🌹🌷

– प्रदीपनाथः