चन्द्रगुप्तः मगधदेशस्य नृपः आसीत् ।तस्य मन्त्री चाणक्यः।सः तपोधनः राजतन्त्रज्ञः च आसीत् ।मन्त्री अपि सः एकस्मिन् उटजे निवसति स्म ।वैराग्यभावनया सः पूर्णः आसीत् ।एकदा नृपः चाणक्याय कम्बलान् समर्पितवान् ।”एतान् कम्बलान् दरिद्रेभ्यः ददातु” इति नृपः सूचितवान् ।

चाणक्यस्य उटजः नगराद् बहिः आसीत् ।केचन् चोराः कम्बलान् अपहर्तुं चिन्तितवन्तः।ते रात्रौ चाणक्यस्य उटजं प्राविशन्।मध्यरात्रसमयः।शीतकालः।अतीव शैत्यम् आसीत् ।तथापि चाणक्यः कटे सुप्तः आसीत् ।तस्य पत्नी अपि कटे एव सुप्ता आसीत् । पार्श्वे कम्बलानां राशिः एव आसीत् । चोराणाम् आश्चर्यम् ! पार्श्वे कम्बलानां राशिरेव अस्ति । चाणक्यः कम्बलं विना निद्रां करोति https://rankhaya.com/! चोराः चौर्यं न अकुर्वन् । ते चाणक्यं प्रबोधितवन्तः। चोराः “चाणक्य पार्श्वे कम्बलानां राशिरेव अस्ति । तथापि त्वं किमर्थं भूमौ शयनं करोषि? ” इति अपृच्छन्। चाणक्यः उक्तवान् “कम्बलाः नृपेण दत्ताः। ते दरिद्रेभ्यःदातव्याः।श्वः प्रातः वितरणं करिष्यामि । तेषाम् उपयोगं कर्तुं मम न अधिकारः।किञ्च अहं विरक्तः।सदा तृप्तः” इति।

इदं श्रुत्वा चोरेषु लज्जा उत्पन्ना । ‘अन्येषां द्रव्यस्य उपयोगेन अधर्मः भवति। इति चाणक्यस्य विचारः अस्ति । वयं जीवने प्रतिदिनम्अन्यस्य द्रव्यमेव अपहरामः, अधर्मं कुर्मः, पापस्य संग्रहश्च भवति’ इति चिन्तयित्वा ते चाणक्यं क्षमां प्रार्थितवन्तः। ततः सज्जनाः च अभवन्।

अशुद्धानि सूचनीयानि कृपया 🙏🙏