आचरणस्य महत्वम्!

कस्मिंश्चित् नगरे एकः वृद्धः चोरः निवसति स्म। तस्य एकः षोडशवर्षीयः पुत्रः अपि आसीत्।

सः वृद्धः चोरः एतावान् वृद्धः अभवत् यस्मात् कारणात् सः चौरकार्यं कर्तुं न शक्नोति स्म।

अतः सः तस्य पुत्रं चौरविद्याम् अशिक्षयत्।

पुत्रः अपि चौरविद्यायां निपुणः अभवत्। तदा तयोः पितापुत्रयोः जीवनं सुखेन चलति स्म।

एकदा वृद्धः तस्य पुत्रम् अकथयत् पुत्र! कदापि साधु-महात्मनाम् उपदेशं न शृणुयात्। यद्यपि कुत्रापि ते उपदेशं कुर्वन्तः सन्ति इति दृश्यते तर्हि कर्णौ अङ्गुल्यौ स्थापयित्वा ततः निर्गच्छेत्।

तदा पुत्रः तदङ्गीकृत्य आम्, तातः तथैव भवतु इति उक्तवान्।

एकदा सः पुत्रः चिन्तितवान् यद् अद्य अहं राजभवनं गत्वा चोरयामि इति।

गमनसमये मार्गे तेन एकत्र जनसम्मर्दः दृष्टः। तदा सः अन्यम् एकं पुरुषं दृष्ट्वा पृष्टवान् तत्र जनसम्मर्दः किमर्थम् इति।

तदा सः पुरुषः उक्तवान् यत् तत्र एकः महात्मा सदुपदेशं कुर्वन् अस्ति अतः जनाः तस्य उपदेशं शृण्वन्तः सन्ति इति।

तदा सः विचलितः अभवत्। एतद् वचनं मया न श्रवणीयम् इति मत्वा पितुराज्ञापालनाय सः तस्य कर्णौ अङ्गुल्यौ स्थापयित्वा अग्रे गच्छन् आसीत्।

यदा सः तत्र जनसम्मर्दस्य समीपं गतवान् तदा एकया शिलया सह तस्य पादाघातं भूत्वा सः भूमौ पतितः अभवत्।

तदा एव सः महात्मनः वचनद्वयम् श्रुतवान् आसीत्।

कदापि मिथ्या न वदेत् , कस्यापि लवणं खादति चेत् तस्य अन्यायं न करणीयं तेन सह विश्वासघातोऽपि न करणीयः चेति।

तदा सः चोरः शीघ्रं ततः उत्थाय पुनः राजभवनं प्रति गमनम् अकरोत्।

यदा सः राजभवनं प्रवेष्टुम् उद्यतः तदा राजभवनस्य द्वारपालः तं निराकुर्वन् पृष्टवान्- भवान् कः? कुत्र गच्छति इति।

तदा सः चोरः महात्मनः वचनं पालयामि सत्यमेव वदामि इति मत्वा सः उक्तवान्- अहं चोरः, राजभवनं गत्वा अहं चौरकार्यं करिष्यामि इति।

द्वारपालः तदा चिन्तितवान् यत् एषः मया सह विनोदं करोति। सः महाराजस्य कोऽपि सेवकः स्यात् इति मत्वा तस्मै राजभवनस्य अन्तः गन्तुम् अनुमतिं दत्तवान्।

अन्तः गत्वा सः चोरः एकस्मिन् प्रकोष्ठे बहु धनं प्राप्तवान् तत् सर्वमपि धनं तस्य स्यूते स्थापितवान्। ततः सः पाकशालां गत्वा स्वादिष्टं भोजनं दृष्ट्वा सः भोजनमपि खादितवान्।

इदानीं सः पुनः महात्मनः द्वितीयम् उपदेशं संस्मृत्य चिन्तितवान् यद् इदानीं तु अहं महाराजस्य लवणम् अपि खादितवान् अतः तस्य अन्यायं न करोमि इति।

सः तत्रैव तस्य स्यूतं त्यक्त्वा बहिरागतवान्।

यदा सः पाकशालायाः बहिः आगतवान् आसीत् तदा केचन तं दृष्ट्वा एषः चोरः तं गृह्णन्तु इति उच्चैः विलापयन्तः आसन्।

तदा सर्वे आगत्य तं गृहीत्वा महाराजस्य समीपं नीतवन्तः आसन्।

महाराजः तं पृष्टवान्- किं त्वं चोरः?

आम्, महाराज। अहं चोरः!

तर्हि चोरितानि वस्तूनि कुत्र इति पुनः महाराजः पृष्टवान्।

चोरः तदा उत्तरितवान् महाराज https://rankhaya.com/! एकः महात्मा उपदेशं दत्तवान् आसीत् यत् कदापि मिथ्या न कथयेत्, यस्य लवणं खादति तस्य अन्यायं न करणीयम् इति।

अहं भवतः गृहे चौरकार्यं कृतवान् इति सत्यं परन्तु भवतः लवणम् अपि खादितवान्। भवतः पाकशालां गत्वा भोजनं कृतवान्। अतः महात्मनः कथनं संस्मृत्य मया चोरितानि वस्तूनि सर्वाणि तत्रैव स्थापयित्वा अहं बहिः आगतोऽस्मि इति।

तस्य चोरस्य वचनं श्रुत्वा सन्तुष्टः महाराजः तदा एव तस्मै राजभवनस्य एकां सेवां दत्तवान्।

ततः परं सः अत्यन्तं सुखेन जीवति स्म।

शिक्षणीयं यत् अस्माभिः महात्मनां वचनम् एव श्रोतव्यम् इति।

-प्रदीपः!