युवकः अङ्कमालः भगवन्तं बुद्धं प्रति गत्वा उक्तवान्,”भगवन्, मम इच्छा अस्ति यत् लोकसेवां कुर्याम्, जनेभ्यः धर्मपथं दर्शयेयम् इति।”

बुद्धः हसित्वा अवदत्,”वत्स, दानात् प्राक् स्वस्य समीपे जगते दानाय किमपि स्यात् तदैव दानं सम्भवेत्। गच्छतु भवान्, प्रथमं स्वस्य योग्यतां वर्धयतु।”

भगवतः वचनं श्रुत्वा अङ्कमालः प्रतिगत्य अत्यायासेन १० वर्षाणि ६४ कलाः अधीतवान्। जगति सर्वत्र तस्य ख्यातिरभूत्।

साभिमानं सः बुद्धं प्रति आगत्य उक्तवान् यत् लोकस्य प्रत्येकं जनं पाठयितुं इदानीं तस्य समीपे ज्ञानम् अस्ति।

बुद्धेनोक्तं,” परीक्षाम् उत्तीर्यैव एतावत् अभिमानः क्रियताम्।”

अपरेद्युः वेषपरिवर्तनं कृत्वा बुद्धः तस्य समीपं गत्वा अकारणमेव तेन सह कलहं प्रारब्धवान्। तदा क्रुद्धः भूत्वा अङ्कमालेन गालिप्रदानम् आरब्धम्। तद्दृष्ट्वा स्मयमानः बुद्धः ततः निर्गतः।

अनन्तरं बुद्धस्य द्वौ शिष्यौ अङ्कमालम् उपगम्य उक्तवन्तौ,” राजा भवन्तं महापदं दातुमिच्छति, चलतु।” तच्छ्रुत्वा लोभाविष्टः सः ‘आगच्छेयम् अनुक्षणमेव’ इत्युक्त्वा तौ अनुगन्तुं प्रवृत्तः। तदानीं तौ द्वौ श्रमणौ प्रतिस्पन्दम् अदत्वैव ततः निर्गतौ।

अङ्कमालः आश्चर्यमुग्धः चिन्तयन्नासीत्,’किमिदम्?’

तदनन्तरं स्वयं बुद्धः आम्रपाल्या सह तत्रोपस्थितः। यावत्कालं बुद्धेन तत्र स्थितं तावत् अङ्कमालः आम्रपालीं निरूपयन् तास्वेव वारवारं दृष्टिक्षेपं कुर्वन् आसीत्। बुद्धः वार्तां समाप्य आश्रमं प्रतिनिवृत्तः।

सायं अङ्कमालमाहूय बुद्धेन पृष्टम्,” वत्स, किं भवता कामक्रोधलोभादीन् षड्रिपून् जयन्ती विद्यापि अधीता?”

अङ्कमालः दिने भूताः सर्वाः घटनाः स्मृत्वा लज्जया अधोमुखः जातः। तदा आरभ्य सः आत्मविजयसाधनायां रतः अभवत्।

🌸