एकः ग्रामः आसीत्!

ग्रामस्य समीपे एव एका नदी प्रवहति स्म!

नद्याः तीरे एकस्य मुनेः आश्रमः आसीत्!

मुनेः बहवः शिष्याः आसन्!

एकदा मुनिः शिष्यैः सह नौकया नद्याः अन्यं तीरं प्रस्थितवान्!

गमनसमये पुरतः अन्या नौका आगच्छन्ती आसीत्!

तस्यां नौकायां बहवः जनाः आसन्!

यदा ते पश्यन्तः आसन् तदा एव सा नौका नदीस्थाम् एकां महतीं शिलां घट्टयित्वा भग्ना अभवत्!

नौकायां स्थिताः सर्वे जले पतित्वा मृताः अभवन्!

तद्दृष्ट्वा मुनिः सर्वान् शिष्यान् उक्तवान्- पश्यन्तु! नौकायां कोऽपि एकः एव दुष्टः आसीत्!

तस्य कारणात् एव सर्वे निरपराधिनः मृताः अभवन्!

अतएव वदन्ति एकः पापानि कुरुते अन्ये फलम् अनुभवन्ति!

परन्तु तदा शिष्याः तद् न अङ्गीकुर्वन्ति स्म!

तदा एकः उक्तवान्- गुरो! एकः पापानि कुरुते अन्ये फलम् अनुभवन्ति इति अन्यायं खलु!

तदा मुनिः किमपि न उक्तवान् मन्दं हसन् आसीत्!

यदा ते नद्याः तीरं प्राप्तवन्तः आसन् तदा तस्मिन् तटे एकः शङ्खः दृश्यते स्म!

तदा एकः शिष्यः तं शङ्खं गृहीतवान्!

शङ्खस्य अन्तः बह्व्यः पिपीलिकाः आसन्!

तासु एका पिपीलिका तस्य शिष्यस्य हस्तम् अदशत् !

अनुक्षणम् एव सः कुपितः सन् शङ्खं नद्याः जले क्षिप्तवान्!

शङ्खे आसन् सर्वाः पिपीलिकाः तदा नद्याः जले पतित्वा मरणं प्राप्तवत्यः !

तद्दृष्ट्वा मुनिः उक्तवान्- पश्यन्तु! एका एव पिपीलिका भवतः हस्तम् अदशत्, किन्तु तस्याः एव कारणात् सर्वाः पिपीलिकाः मरणं प्राप्तवत्यः!

अतः एव वदन्ति एकः पापानि कुरुते सर्वे अपि फलम् अनुभवन्ति इति!!

🌹🌹

-प्रदीपः!!