पुत्रः तस्य वृद्धजर्जरा माता च राज्यं विहाय काशीं प्रति प्रस्थितौ। पुत्रस्य राज्यासक्तिः समूलं नष्टासीत्। प्रजाजनेषु कस्मिंश्चित् राज्यभारम् आरोप्यताम् इति मन्त्रिणः निवेद्य सर्वं वैभवं त्यक्त्वा राजपुत्रः गच्छन्नासीत्।

यदा तौ चलन्तौ आस्तां तदा माता पुत्रं उपदिशन्ती आसीत् यत् मनुष्यस्य आशा कदापि पूर्णा न भवति अतः आशात्यागेनैव शाश्वतशान्तेः प्राप्तिर्भवति। एतावन्ति दिनानि भवता मया च प्रजानां सेवा निरलसतया, निःस्पृहतया कृता। इदानीमेषः सर्वत्यागस्य समयः इति।

शनैः शनैः मार्गं क्रमन्तौ तौ अगच्छताम्।

मध्येमार्गं वृद्धां मातरं पिपासा अबाधत। तृषार्ता सा पुत्रं जलम् अयाचत। तदा मातरं वृक्षस्य अधः उपवेश्य जलान्वेषणाय पुत्रः प्रस्थितः। यदा सः जलं गृहीत्वा प्रत्यागच्छत् तदा सः बहु भीतः अभवत्। माता कुत्रापि नादृश्यत। सः मत्तः इव सर्वत्र मातुः अन्वेषणम् आरब्धवान्।

तदानीमेव तेन आकाशवाणी श्रुता- राजकन्यां सिहासने आरोपयितुमुत्सुकाः जनाः तदर्थं भृशं प्रयतमानाः आसन्। तथापि तेषां प्रयत्नाः विफलाः अभूवन्। तेन राज्यसिंहासनं रिक्तमेवातिष्ठत्। भवतः माता यदा एतत् श्रुतवती तदा धावन्ती एव प्रतिगतवती इति।

राजपुत्रः अपि मातुः स्नेहेन प्रत्यागतः। तेन राजधानीं सम्प्राप्य यदा दृष्टं तदा सः अवगतवान् यत् तस्य माता धावन्ती आगत्य रिक्तसिंहासनम् आरूढवती आसीत् इति।

🤣🤣🤣🤣🤣🤣🤣