शिक्षकः छात्रान् पृच्छति-

भोः छात्राः! वदन्तु अस्यां पृथिव्यां कति देशाः सन्ति?

एकः छात्रः झटिति उत्थाय उत्तरितवान् एकः एव देशः अस्ति। सः अस्माकं भारतदेशः।

शिक्षकः- तर्हि अमेरिका, न्यूजीलैंड, फ्रान्स, आफ्रिका, आस्ट्रेलिया इत्यादयः के?

छात्रः- ते तु विदेशाः न तु देशाः।

छात्रस्य उत्तरं श्रुत्वा शिक्षकः मूर्च्छितः अभवत्।

-प्रदीपः!