कुक्कुर किं ते नैपुण्यम्? -२
चोरं दृष्ट्वा बुक्कामि । -२

बिडाल किं ते नैपुण्यम्? -२
मूषिकवृन्दं प्रतिहृन्मि । -२

कोकिल किं ते नैपुण्यम्? -२
वसन्तकाले कूजामि । -२

मयूर किं ते नैपुण्यम्? -२
मनोज्ञरीत्या नृत्यामि । -२

उष्ट्रकं किं ते नैपुण्यम्? -२
मरुभुवि सततं धावामि ।-२

हे शुक किं ते नैपुण्यम्? -२
स्पष्टां वाचां निगदामि ।-२

दर्दुर किं ते नैपुण्यम्? -२
कीटपतंगं खादामि । -२

मर्कट किं ते नैपुण्यम्? -२
चेष्टां विविधां प्रकरोमि । -२

–एच०वी०नागराजराव , मैसुरु