गङ्गा गङ्गा गङ्गा , प्रवहतु पावनगङ्गा
गङ्गा गङ्गा गङ्गा , सुवहतु संस्कृतगङ्गा ।
शङ्करशिरसः पावनगङ्गा
शङ्करपुरतः संस्कृतगङ्गा ।
गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा ।।
गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा

पुरा भगीरथप्रभुप्रयत्नात्
भुवमवतीर्णा गङ्गा
सुरवरमुनिजनतपःप्रभावात्
जाता संस्कृतगङ्गा ।।१।।
गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा

पवित्रगङ्गा भारतवर्षे
भवतु सदा सा शुद्धा
संस्कृतगङ्गा जनहृन्निलये
विलसतु चिरं प्रबृद्धा ।।२।।
गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा

‘स्नानादेव हि मुक्तिर्लक्ष्या’
स च गङ्गाया महिमा
‘कैवल्यार्थं सम्भाषणम्’ इति
संस्कृतमातुर्गरिमा ।।३।।
गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा

गङ्गा गङ्गा गङ्गा , प्रवहतु पावनगङ्गा
गङ्गा गङ्गा गङ्गा , सुवहतु संस्कृतगङ्गा ।
शङ्करशिरसः पावनगङ्गा
शङ्करपुरतः संस्कृतगङ्गा ।
गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा ।।

रचनाकारः -श्री नरसिंहभट्टः, बेङ्गलुरु https://libido-portugal.com/cialis-generico-portugal/

स्वरः – उमा माहेश्वरी

सम्भाषणसन्देशः – नवम्बर – २०१५

                संकलनकर्ता
          गोपालकृष्णमिश्रः प्रान्तप्रचारप्रमुखः काशीप्रान्तः, संस्कृतभारती