चटक, चटक, रे चटक
चिँव्, चिँव् कूजसि त्वं विहग।।ध्रु।।

नीडे निवससि सुखेन डयसे
खादसि फलानि मधुराणि ।
विहरसि विमले विपुले गगने
नास्ति जनः खलु वारयिता।।१।। https://libido-portugal.com/cialis-generico-portugal/

मातापिरौ इह मम न स्तः
एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिँव् चिँव् मित्र
ददामि तुभ्यं बहुधान्यम्।।२।।

चणकं स्वीकुरु पिब रे नीरं
त्वं पुनरपि रट चिँव् चिँव् चिँव् ।
तोषय मां कुरु मधुरालापं
पाठय मामपि तव भाषाम्।।३।।