मदनस्य गृहे एकः चपलः मार्जारः आसीत्।

सः मार्जारात् त्रस्तः भवति स्म।

एकदा सः चिन्तितवान् यत् एतं मार्जारं कुत्रापि त्यक्त्वा आगच्छामि इति।

परेद्युः सः तं मार्जारं गृहीत्वा नीत्वा दूरं त्यक्त्वा आगतवान्।

मदनः गृहम् आगत्य दृष्टवान् सः मार्जारः अपि गृहम् आगतवान्।

पुनः सः तं मार्जारं गृहीत्वा इतोऽपि दूरं नीत्वा त्यक्त्वा आगतवान् परन्तु तदानीमपि सः मार्जारः गृहम् आगतवान् आसीत्।

इदानीं सः मदनः कुपितः सन् पुनः तं नीत्वा अरण्यं गतवान्।

अरण्यस्य अन्तः बहु दूरं गत्वा तं मार्जारं त्यक्त्वा आगमनसमये सः मदनः दूरवाण्या तस्य पत्नीं पृच्छति अयि प्रिये! किं मार्जारः गृहं पुनः गतवान् इति।

तस्य पत्नी तदा उक्तवती आम्। सः तु गृहे एव अस्ति इति।

मदनः तदा कोपेन उक्तवान् शीघ्रं तं दुष्टं प्रेषयतु अत्र, अहमेव मार्गं विस्मृतवान्। 🙄

-प्रदीपः!