भोजराजः विद्वद्भ्यः भूरि कनकानि ददातीति श्रुत्वा चत्वारः पण्डितम्मन्याः धारानगरीं प्रति प्रस्थिताः। भोजराजं प्रीणयितुं तैः काचित् कविता रचनीया आसीत्। मार्गे बहुधा प्रयासः कृतः चेदपि कविताकामिन्याः प्रेमपात्रतां न ययुः। श्रान्तास्ते विश्रान्त्यर्थं कासारतीरे कस्यचित्तरोर्मूलं समाश्रयन्।

सः जम्बूवृक्षः आसीत्। चतुर्षु अन्यतमः वृक्षे पक्वानि फलानि अपश्यत्। सपदि तेन ‘जम्बूफलानि पक्वानि’ इति पद्यस्य प्रथमः पादः रचितः।

अन्यः तानि फलानि कासारजले पतन्तीति अवालोकयत्। तेन द्वितीयः पादः व्यरच्यत – ‘पतन्ति विमले जले’ इति।

अपरः चोद्यमेकमलक्षयत् । पक्वान्यपि फलानि जलाशयस्य मत्स्यैः न खादितानि। अतः तेन “तानि मत्स्याः न खादन्ति’ इति तृतीयः चरणः विरचितः।

जले पतनसमये फलैः क्रियमाणेन विचित्रशब्देन आकृष्टचित्तेन चतुर्थेन भणितम् – ‘जलमध्ये डुबुक् डुबुक्’ इति।

एवं महता प्रयासेन चत्वारः सम्मिल्य एकं पद्यं विरचयामासुः।

जम्बूफलानि पक्वानि,

पतन्ति विमले जले।

तानि मत्स्या न खादन्ति

जलमध्ये डुबुक् डुबुक्।।

भोजराजस्य आस्थानं प्रविश्य पद्यमेतत् गदितं तैः। भोजस्तु चमत्कृतिहीनाम् एनां रचनां श्रुत्वा तेभ्यः अकुप्यत।

निराशया ते कवयः अवनतवदनाः बहिः आगतवन्तः। तदैव प्रासादमुपसर्पन्तं कालिदासं दृष्ट्वा प्राणमन्। तेभ्यः सकलं वृत्तान्तम् आकर्ण्य कविकुलगुरुः पद्यस्य अन्तिमं चरणं परिवर्तितवान्।

जम्बूफलानि पक्वानि

पतन्ति विमले जले।

तानि मत्स्या न खादन्ति

जालगोलकशङ्कया।।

फलानि मत्स्यकारैः प्रसारितस्य जालस्य गोलकानि मत्वा मत्स्याः तानि खादितुं न इच्छन्ति इत्यसाधारणेन कल्पनाविलासेन पद्यस्य भाग्यमेव परिवर्तितम्।

ते भूयः सभां प्रविश्य परिवर्तितं पद्यम् अश्रावयन्। यद्यपि भूपतिः पद्ये प्रविष्टः चमत्कारः कालिदासकृतः इत्यवागच्छत् तथापि करुणार्द्रहृदयः भूत्वा तेषां चतुर्णां पण्डितपुत्राणां दारिद्र्यमपाहरत्।

✍🏻 महाबलभट्टः, गोवा