न्याय श्रद्धा

पूर्वं सगरः नाम नृपः आसीत् । तस्य पत्नीद्वयम् आसीत् ।किन्तु एकः अपि पुत्रः न आसीत् ।अतः सगरः दुखितः अभवत् ।अनन्तरं सः एकं मुनिवरं सेवितवान् ।मुनिवरः सन्तुष्टः जातः।सः वरम् अयच्छत्।सगरस्य ज्येष्ठपत्नी एकं पुत्रं अलभत।तस्य नाम असमञ्जः ।कनिष्ठपत्नी षष्टिसहस्रं पुत्रान् अलभत।कालः अतीतः ।सर्वे पुत्राः अवर्धन्त ।राजकुमारः असमञ्जः बहु दुष्टः आसीत् ।सः विनोदिर्थं नगरस्य अन्यान् बालान् जले क्षिपति स्म।म्रियमाणान् तान् दृष्टवा आनन्देन हसति स्म च।एवम् असमञ्जः अनेकान् बालान् अमारयत्।

ततः जनाः दुखिताः अभवन्।ते नृपस्य समीपम् आगच्छन्।असमञ्जस्य दुराचारम् अवदन्।तदा नृपः सचिवान् आह्वयत्। पुत्रस्य विषयम् अवदत्। “इदानीं किं करोमि?” इति तान् अपृच्छत् ।सचिवाः अवदन्- “प्रजापीडकः असमञ्जः भवता निष्कासितः भवतु” इति। नृपः सचिवानां निर्णयम् अङ्गीकृतवान् ।पुत्रम् अपि असमञ्जं सः निष्कासितवान् ।अहो! न्याये नृपस्य श्रद्धा!

अतः सज्जनाः वदन्ति ‘त्यजेदेकं कुलस्यार्थे ‘ इति।