एकदा पतिपत्न्योः विवादः सञ्जातः!

विवादसमये पत्न्याः शरीरम् आरुह्य एकः ऊर्णनाभः तस्याः शिरः प्राप्तवान्!

तदा सा चित्कारं कृत्वा तं अङ्गुलीभिः भूमौ क्षिप्तवती विवादं त्यक्त्वा च धावित्वा स्वपतिं हस्ताभ्यां गृहीतवती!

उक्तवती च तस्मात् ऊर्णनाभात् मां रक्षतु भोः इति!

तदा सः पतिः मृदुः हसित्वा तं ऊर्णनाभं गृहीत्वा उक्तवान्- हे ऊर्णनाभ! त्वं तु एकः सामान्यः कीटः परन्तु तथापि मम पत्नी त्वत् विभेति किन्तु अहं तस्याः पतिः तथापि सा मत् न विभेति!

त्वयि को गुणः अस्ति इति कृपया मां कथय भोः!🤔