दोषस्य समालोचना न कर्तव्या!

एकदा एकः महाराजः तस्य राज्यस्य कांश्चन ब्राह्मणान् निमन्त्रणं कृत्वा आनीय भोजनं कारयितुं तेभ्यः ब्राह्मणेभ्यः स्वहस्तेन भोजनानि परिवेशनं कुर्वन् आसीत्।

तदानीमेव आकाशमार्गे एकः गरुडः तस्य मुखे एकं सर्पम् आदाय गतवान् आसीत्।

मृतस्य सर्पस्य मुखम् उद्घाटितम् आसीत्। ब्राह्मणेभ्यः यद् भोजनं महाराजः परिवेशनं कुर्वन् आसीत् तस्मिन् भोजने सर्पस्य मुखात् विषम् अपतत्।

भोजने विषं पतितम् इति केनापि ज्ञातुम् अशक्यम्।

तद् भोजनं खादित्वा केचन ब्राह्मणाः मृताः अभवन्।

तद् दृष्ट्वा महाराजस्य महद् दुःखम् अभवत्।

इदानीं ब्रह्महत्यायाः पापं कस्य भवेत् इति यमराजः अपि चिन्तायाम् अपतत्।

तदा यमराजः तस्य एकस्मै अनुचराय आदेशं दत्त्वा उक्तवान् त्वं तत्र गत्वा सर्वं परिशीलनं कृत्वा आगच्छ इति।

सः अनुचरः आगत्य तदा सर्वं परिशीलनं कृत्वा दृष्टवान् कस्यापि दोषः नास्ति इति।

अत्र महाराजस्य दोषः नास्ति, गरुडस्य अपि दोषः नास्ति अपिच मृतस्य सर्पस्यापि दोषः कथं वा भवेत् इति।

एवमेव कानिचन दिनानि अतीतानि, पुनः एकदा केचन ब्राह्मणाः महाराजेन सह मेलितुम् आगतवन्तः आसन्।

ते ब्राह्मणाः महाराजस्य प्रासादं गमनसमये मार्गे एकां महिलां दृष्ट्वा पृष्टवन्तः यद् महाराजस्य राजसभा केन मार्गेण गन्तव्या इति।

तदा सा महिला मार्गं दर्शितवती उक्तवती च यद् अयं महाराजः तु ब्रह्महत्याकारी अतः भवन्तः सावधानेन भवन्तु इति।

परन्तु महाराजस्य दोषः एव न आसीत्। महिलायाः वचनं श्रुत्वा यमराजस्य अनुचरः इदानीं निर्दिष्टम् अकरोत् यत् सा एव महिला एतस्याः ब्रह्महत्यायाः पापं भुङ्क्ते इति।

तदा सः अनुचरः यमलोकं गत्वा सर्वं वृत्तान्तं यमराजं निवेदितवान्।

शिक्षितव्यम्- कस्यापि दोषः वा भवतु परन्तु तस्य दोषस्य समालोचना न कर्तव्या इति।

🌹🌹

-प्रदीपः!