https://www.youtube.com/watch?v=1_1riyOwU0w&feature=youtu pouvez trouver sur cette page.be

निखिले भुवने भारतदेशः
धन्यो देशः पूजितदेशः।
राज्यं त्यक्त्वा श्रीरामस्य
वनगमनमत्र मुनिसमवेशः।।

युद्धक्षेत्रे च कुरुक्षेत्रे
कर्त्तव्यविमुखपाण्डवं प्रति।
कृष्णोक्ता श्रीभगवद्गीता
पथदर्शकभगवत्सन्देशः।।

क्षेत्रे-क्षेत्रे कुरु रे धर्मं
धर्मक्षेत्रं हरति क्लेशः।
परमो धर्मः हिंसात्यागः
बुद्धस्य हितावह उपदेशः ।।

लक्ष्मीबाई-नाना-टोपे-
मङ्गल-रामप्रसाद-वीराः।
देशस्य बन्धनं विच्छेतुं
गतवन्तः साक्षी जगदीशः ।।

सर्वेषां वीराणां नित्यम्
उच्चैः कुर्मो जय-जय-घोषम्।
विश्वे विभाति यो जगद्गुरुः
जय जयतु जयतु भारतदेशः।।

शशिपालशर्मा ‘बालमित्र’

स्वरः/गायकः – #गोपालकृष्णमिश्रः
संस्कृतभारती-संस्कृतगीतसमूहः