एकदा चाणक्य महोदयस्य एकः परिचितः तस्य समीपम् आगत्य उक्तवान्- महोदय! भवतः मित्रस्य विषये यदहं श्रुतवान् भवान् जानाति वा?
चाणक्यः – न, अहं न जानामि! परन्तु तिष्ठतु क्षणमेकम्!
ततः पूर्वम् अहं भवन्तं त्रीन् प्रश्नान् पृच्छामि!
परिचितः- त्रयः प्रश्नाः वा?
चाणक्य: – आम्! भवान् मम मित्रस्य विषये यद् वक्तुम् इच्छति तत् मम प्रश्नानाम् उत्तराणि दत्त्वा तदनन्तरं वक्तुं शक्यते!
प्रथमः प्रश्नः – किं भवान् यद् श्रुतवान् तत् पूर्णविश्वासेन वक्तुं शक्यते यत् तत् सत्यमस्ति?
परिचितः- नहि महोदय! वस्तुतः अहम् अन्यस्मात् श्रुतवान्!
चाणक्यः- अहो एवं वा! तन्नाम एतस्योपरि भवतः पूर्णविश्वासः एव नास्ति!
अस्तु मम द्वितीयः प्रश्नः – भवान् मम मित्रस्य विषये यानि श्रुतवान् तानि शोभनानि वचनानि वा?
परिचितः – नहि महोदय!
चाणक्यः- अहो तर्हि भवान् मां मम मित्रस्य निन्दावचनानि श्रावयितुम् उद्यतः यत् सत्यमपि नास्ति!
इदानीं मम तृतीयः प्रश्नः- यद् भवान् मां वक्तुम् इच्छति किं तत् मम कृते उपयोगी ?
परिचितः- तदपि नास्ति इति भाति!
चाणक्यः- तर्हि किमर्थं मम मित्रस्य विषये निन्दावचनानि वक्तुम् उत्साहेन आगतवान् भवान्?
इतः परं कस्यापि निन्दावचनानि श्रुत्वा तेषां परीक्षणं विना कदापि कस्यापि पुरतः न वदतु!
-प्रदीपः