polska-ed.com

पाठयेम संस्कृतं जगति सर्वमानवान्
प्रापयेम भारतं सपदि परमवैभवम् ॥

व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेहशक्तिशीलशौर्यदेशभक्तिभूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥

हिन्दुबन्धुमेलनेन सर्वदोषनाशकम्
उच्चनीचजातिराज्यभेदभाववारणं
सामरस्यरक्षणेन शान्तिपूर्णजीवनं
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥

जीवनस्य कार्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीनभावना
साधितास्तु माधवस्य विश्वविजयकामना ॥