एकदा बहिः गतः श्रीमन्नारायणः वैकुण्ठम् आगतवान्!

स्वभवनं प्रविष्टवान्!

तत्र शयनप्रकोष्ठे पादुके विसृज्य सः शेषशयने शयनं कृतवान्!

निद्रामग्नः च अभवत्!

तदा तत्र स्थितः श्रीमन्नारायणस्य किरीटः पादुके उद्दिश्य अवदत् हे पादुके! भवत्योः परिज्ञानम् अस्ति किम्?

सर्वेषु अशुचिस्थानेषु अटित्वा प्रकोष्ठस्य अन्यः आगमनं उचितं वा, इतः निरगम्यताम् इति!

तदा पादुकाभ्याम् उक्तं! आवां स्वयं अत्र न आगते, श्रीमन्नारायणेन एव अत्र आनीते! भवतः किमर्थं क्रोधः इति!

तदा किरीटस्य क्रोधः इतोऽपि अधिकः जातः!

तदा किरीटः नारायणस्य पादमूले स्थिताभ्यां भवद्भ्यां भगवतः शिरसि स्थितस्य किरीटस्य मम प्रतिवचनं दीयते वा?

कियद् साहसं भवत्योः इति अगर्जत् किरीटः!

तदा पादुकाभ्याम् उक्तं हे शिरभूषण! यद्यपि भगवतः पादमूले आवां भवावः तथापि चरणसेवकानां जीवनम् एव धन्यम् इति सर्वैः विदितम् एव इति!

तयोः संभाषणं श्रुत्वा शङ्क- चक्र- गदादयः पादुके निन्दन्तः किरीटस्य समर्थनं कृतवन्तः!

तदा पादुके दुःखिते जाते!

ताभ्यां द्वाभ्यां अपि भगवतः नारायणस्य प्रार्थना कृता!

हे भगवन्! भवता एव आवाम् अत्र आनीते, इदानीम् ईदृशं निन्दनवचनम् उचितं वा इति!

तदा भगवान् नारायणः पादुके दृष्ट्वा दीर्घं निःश्वस्य किरीटम् उद्दिश्य एवम् अवदत्…

हे किरीट! भवान् मम प्रियपादुकयोः एवम् उपहासं कृतवान्! अतः रामावतारकाले चतुर्दशवर्षाणि यावत् भवान् पादुकयोः उपरि एव तिष्ठतु! तदा शङ्कचक्राभ्याम् अपि भरत- शत्रुघ्नरूपेण चतुर्दशवर्षाणि यावत् तयोः सेवा करणीया इति!

तदनुसारम् एव त्रेतायुगे भरतः रामस्य पादुके सिंहासने स्थापितवान्!

चतुर्दशवर्षाणि यावत् शत्रुघ्नेन सह तयोः सेवां कृतवान्!

तदा एव भगवतः नारायणस्य किरीटस्य अहंकारः अपगतः अभवत्!!

🌷🌺

-प्रदीपः