श्वशुरगृहनिवासः……*

संस्कृतस्य पञ्चमहाकाविषु भारविः अन्यतमः। तस्य पूर्वनाम दामोदरः इत्यासीत्।

यद्यपि दामोदरः मूढः नासीत् तथापि तस्य पिता तं सर्वदा मूर्खः इति निन्दति स्म। तेन दामोदरः नितरां दूयते स्म।

एकदा पितुः निन्दावचनेन पीडितान्तःकरणः सः पितरं मारयितुं निश्चयञ्चकार। रात्रौ भोजनोत्तरं महान्तं शिलाखण्डमेकं स्वीकृत्य अट्टोपरि उपाविशत्। पिता यदा शेते तदा तस्योपरि शिलाखण्डः पातनीयः इति तस्य चिन्तनम् आसीत्।

शयनसमये तस्य पिता स्वपत्न्या सह संल्लपन् पुत्रस्य विषये प्रशंसावचनानि उदगिरत्। तच्छ्ऋत्वा पिता ‘परोक्षे तनयाः स्तुत्याः’ इत्युक्तिम् अनुसरतीति दामोदरः अचिन्तयत्। पश्चात्तापेन दग्धमानसः सः पितुः पादमूले निपत्य क्षमायाचनमकुरुत। दुष्टचिन्तनेन प्रदूषितस्य अन्तःकरणस्य शुद्ध्यर्थं मार्गं सूचयितुं न्यवेदयत्।

‘षण्मासपर्यन्तं श्वशुरगृहे निवासं करोतु’ इति जनकः तम् असूचयत्।

स तु श्वशुरगृहे प्राप्स्यमानान् राजोपचारान् ध्यात्वा प्रमुदितमनोऽभूत्। नैषा शिक्षा, वर एव इति चिन्तयन् श्वशुरगृहं प्रपेदे।

श्वशुरगृहे वैभवेन तस्य स्वागतमभवत्। परन्तु केषुचित् दिनेषु व्यतीतेषु पितुः शिक्षावचनस्य तथ्यमनुभूतम्। वेदनापूर्णहृदयेन तेन इदं पद्यं रचितम् –

श्वशुरगृहनिवासः स्वर्गतुल्यो नराणां

यदि वसति दिनानि त्रीणि पञ्चाथ सप्त।

मधुदधिघृतधाराक्षीरसारप्रवाहः

तदुपरि निवसति चेत्पादरक्षाप्रवाहः।।

पुरुषैः मन्तव्यः विचारः खलु!

✍️ महाबलभट्टः, गोवा