कथा

स्वस्य मनः सदा सम्यक् स्थापनीयम्

एकदा स्वामी रामकृष्ण परमहंसः स्वं गुरुं तोतापुरी महाराजं पृष्टवान्- भवान् बहु साधनां आराधनां च कृतवान् । ‘ब्रह्म’ इत्यस्य प्राप्तिः अपि जातः। तथापि प्रतिदिनं आसने उपविश्य साधनां आराधनां च किमर्थं करोति? अधुना भवतः पूजा-पाठस्य वा अध्ययनस्य का आवश्यकता इति ?

गुरुमहाराजः उक्तवान्- “अहं सर्वं प्राप्तवान् एतस्य अहंकारः जीवने न आगच्छेत् अतः ।स्वस्य साधना प्रतिदिनं भवेत् । ”

गुरुमहाराजः जलपात्रं दर्शयित्वा उक्तवान् – “रामकृष्ण ! पश्यतु एतत् जलपात्रं कीयत् स्वच्छम् अस्ति ।स्वस्य मुखम् अपि द्रष्टुं शक्नुमः ।अहं प्रतिदिनं स्वच्छं करोमि जलपात्रम् ।यदि एवं न करिष्यामि चेत् एतत् मलिनं भविष्यति । एतस्य जलम् अपि न पातुं शक्नुमः ।

अतः स्वं मनः साधनया आराधनया च प्रतिदिनं स्वच्छं कुर्याम । अधुना अस्मान् किमपि करणस्य आवश्यकता नास्ति इति अभिमानः व्यर्थः।

बान्धवाः! बहवः जनाः चिन्तयन्ति यत् अहं अनुभवी अस्मि । इतोपि अवगमनस्य आवश्यकता नास्ति इति। परन्तु एवं जनः कदा स्खलितः भविष्यति न कथयितुं शक्नुमः । अतः प्रतिदिनं प्रयासं अभ्यासं च कुर्याम ।