मक्षिकाणां आतङ्कः!!

परह्यः दूरदर्शने दृष्टवान् अर्णवः गोस्वामी महोदयेन साकं पाकिस्तानस्य पत्रकारस्य चर्चा प्रचलिता आसीत्!

एषु दिनेषु पाकिस्ताने सर्वत्र मक्षिकाणाम् आतङ्कः प्रचलति!

एतावत्यः मक्षिकाः सन्ति याभिः पाकिस्तानस्य नागरिकानां जीवनं दुष्करं अभूत्!

तयोः इमां वार्तां श्रुत्वा सहसा पूर्वं पठिता मया एका कथा स्मरणं आगता!

कथा आसीत् 6 अगस्त 1945 तमे वर्षे यदा हिरोशिमायाः उपरि परमाणु विस्फोटः अभवत् तत् पूर्वं तत्रापि अधिकाः मक्षिकाः आसन्!

तेन आक्रमणेन बहवः जनाः मृताः अभवन्!

जापानदेशः तदा अवगन्तुं न शक्तवान् यत् एतावत्यः मक्षिकाः किमर्थम् आगताः सन्ति इति!

जापानदेशः तु स्वच्छतायां विश्वे प्रथमम् इति परिगण्यते!

परन्तु किमर्थं मक्षिकाणां एतावती वृद्धिः अभवत् इति ते जापानदेशीयाः न ज्ञातवन्तः आसन्!

यत्र मलिनानि स्थानानि भवन्ति तत्र एव मक्षिकाः भवन्ति इति न अपितु मक्षिकाः भविष्यद्द्रष्टा अपि भवन्ति!

हिरोशिमायाः घटनायाः दशवर्षेभ्यः परं अमेरिकीय एकः वैज्ञानिकः मक्षिकाणाम् उपरि गवेषणं कृतवान् आसीत्!

तेन वैज्ञानिकेन गवेषणं कृत्वा प्राप्तं यद् मक्षिकाः भविष्यद्द्रष्टा अपि भवन्ति!

मृतानां मनुष्याणां शरीराणि कुत्र अधिकानि भवन्ति इति ताः मक्षिकाः पूर्वम् एव ज्ञातुं शक्नुवन्ति इति!

इदानीं पाकिस्ताने अपि तथैव परिस्थितिः दृश्यते!

किं पाकिस्ताने अपि अधिकाः जनाः मृताः भविष्यन्ति?

किं तत्रापि परमाणोः आक्रमणं भविष्यति?

केवला जिज्ञासा मम अस्तु!

-प्रदीपः