एकः राजा आसीत्! तस्य एका अजा आसीत्!

एकस्मिन् दिने सः राजा तस्य राज्ये सर्वत्र घोषणां कृतवान् यत् यः मम अजायाः उदरं पूरयितुं शक्नोति तस्मै अहं पारितोषिकं दास्यामि इति clomid cena!

परन्तु अजायाः उदरं पूर्णम् अभवत् वा न वा इति अहं परीक्षां करिष्यामि इति!

राज्ञः एतां घोषणां श्रुत्वा एकः कृषकः राज्ञः समीपम् आगत्य उक्तवान् हे राजन्! तत्कार्यम् अहं करोमि, भवतः अजां मह्यं ददातु इति!

राजा तस्मै कृषकाय अजां दत्तवान्, सः अपि अजां नीत्वा वनं गतवान्!

प्रातःकालात् सायंकालपर्यन्तं सा अजा भृशं तृणानि खादितवती , तस्याः उदरे रिक्तस्थानम् एव नास्ति! तस्याः उदरं पूर्णम् अभवत् इति चिन्तयित्वा सः कृषकः राज्ञः गृहं अजां नीत्वा प्रत्यागतवान्!

सायंकाले सः अजां नीत्वा राज्ञः समीपम् आगतवान्!

तदा राजा तस्यै अजायै तृणं दत्तवान्! तृणं दृष्ट्वा सा अजा पुनः खादितुम् आरब्धवती!

एतद् दृष्ट्वा राजा उक्तवान्! अस्याः अजायाः उदरं तु पूर्णं न अभवत्!

सः कृषकः निराशः सन् गृहं गतवान्!

अनन्तरे दिने अन्यः एकः आगत्य सः अपि तथैव कृतवान् परन्तु तेन सह अपि तथैव अभवत्!

कोऽपि तस्याः अजायाः उदरं पूरयितुं न शक्नोति इति!

तदा एकः विद्वान् ब्राह्मणः चिन्तितवान् यत् अस्याः कृते कोऽपि विशिष्ट उपायः कर्तव्यः इति!

सः ब्राह्मणः अपि तां अजां तृणानि खादयितुं वनं नीतवान्!

प्रातःकालात् एव यदा सा अजा तृणानि खादितुं प्रयत्नं करोति तदा सः ब्राह्मणः तां दण्डेन ताडयति स्म!

एवमेव सः ब्राह्मणः ताम् अजां प्रातःकालात् सायंकालपर्यन्तं एकं तृणम् अपि खादितुं न दत्तवान्! अन्ते च सा अजा भयेन एव किमपि खादितुं न इच्छति स्म!

सा ज्ञातवती यत् इदानीं यदि अहं खादामि तर्हि मां ताडयिष्यति इति!

सायंकाले राज्ञः समीपम् आगत्य ब्राह्मणः उक्तवान् राजन्! इदानीं परीक्षां करोतु, सा अजा किमपि न खादिष्यति यतः तस्याः उदरं पूर्णम् अस्ति इति!

आम्,सत्यम्! इदानीं तु सा अजा किमपि न खादति एव! अपिच सा अजा बुभुक्षिता अस्ति चेदपि तृणं न पश्यति एव!

मित्राणि चिन्तयन्तु ,,,

इयम् अजा मनः एव!

सः ब्राह्मणः आत्मा अस्ति!

सः राजा परमात्मा अस्ति!

अस्माभिः मनः न ताडनीयम् , अपितु नियन्त्रणे आनेतव्यम्!

मनसः शोधनं भवति चेत् जीवनस्य उन्नतिः भवेदेव इति तात्पर्यम् अस्ति!

अर्थोपार्जनं कस्यापि अधिकं कस्यापि न्यूनं भवेदेव परन्तु रोटिकायाः आकारः सर्वेषु अपि गृहेषु प्रायः समानः भवति!

🌷🌹

-प्रदीपः