लघ्वी कथा!

एकस्मिन् वने एकः मुनिः निवसति स्म। कश्चन मूषकः यः मार्जारात् विभेति स्म।

सः मूषकः एकदा मुनेः समीपम् आगत्य अकथयत्- हे मुने! एकः मार्जारः मां खादितुम् उद्यतः। कृपया मां रक्षतु इति।

मुनिः अवदत्- त्वमपि मार्जारः भव इति। त्वरितम् एव सः मार्जारः अभवत्।

पुनः एकस्मिन् दिने सः मुनेः समीपम् आगत्य प्रार्थनाम् अकरोत्- हे मुने! अहं कुक्कुरात् भीतः अस्मि, अतः मां रक्षतु इति।

तदा मुनेः आशीर्वादेन सः मार्जारः कुक्कुरः अभवत्।

एकदा सः कुक्कुरः वने भ्रमन्तं सिंहं दृष्ट्वा भीतः सन् मुनिम् अवदत् मुने! अहं सिंहात् भीतः अस्मि अतः मां रक्षतु इति।

मुनिः तदा तं सिंहम् अकरोत्।

यदा सः सिंहः अभवत् तदा सः गर्वेण शिरः उत्थाय वने इतस्ततः अभ्रमत्।

वनस्य सर्वे पशवः तम् अनमन्।

कदाचित् मदोन्मत्तः सः अचिन्तयत् यदि एषः मुनिः मां निन्देत् यद् एषः सिंहः तु पूर्वं मूषकः आसीत्, तदा कथं न एतमेव नाशयेयम् इति।

तस्य सिंहस्य ईदृशं विचारं विदित्वा मुनिः तम् अशपत्- त्वं पुनः मूषकः भव इति।

तदा सः सिंहः पुनः मूषकः अभवत् इति शुभम्।

-प्रदीपः buscar!