महाभारतस्य युद्धं समाप्तम् अभवत्! सर्वत्र रणभूमौ मृतशरीराणि पतितानि आसन्!

गृध्राः, शृगालाः, कुक्कुराः एवञ्च अन्ये पशवः चापि आसन्!

एतद् दृश्यं हृदयविदारकं भययुक्तः चासीत्!

सूर्यस्य उत्तरायणम् इत्यस्य प्रतीक्षां कुर्वन् एकाकी एव केवलं रणभूमौ पितामह भीष्मः शरशय्यायाम् आसीत्!

तस्मिन् समये भगवान् श्रीकृष्णः तस्य पितामहस्य समीपं गत्वा तं नमस्कृतवान् !

भगवन्तं दृष्ट्वा आगच्छतु केशव! भवतः स्वागतम्! अहं तु बहुकालात् भवतः एव स्मरणं कुर्वन् आसम् इति पितामहः अब्रवीत्!

तदा श्रीकृष्णः उक्तवान् – किं कथयानि पितामह! इदानीं तु अहं भवन्तम् एतदपि प्रष्टुं न शक्नोमि यद् भवान् कथम् अस्ति कुशली खलु इति!

पितामहः तूष्णीम् एव आसीत्!

किञ्चित् कालानन्तरम् अवदत् – पौत्रस्य युधिष्ठिरस्य राज्याभिषेकं कारितवान् वा केशव?

श्रीकृष्णः अपि तदा तूष्णीम् एवासीत्!

भीष्मः पुनः उक्तवान् किमपि पृच्छानि केशव! यतोहि भवान् समीचीनसमये आगतवान् अस्ति , मम अनेके भ्रमाः दूरीभवेयुः इति revisar!

तदा श्रीकृष्णः उक्तवान्- पृच्छतु पितामह, भवान् किं प्रष्टुम् इच्छति इति!

हे केशव! भवान् ईश्वरः वा इति पितामहः श्रीकृष्णं पृष्टवान्!

नहि पितामह! अहम् ईश्वरः न , अहं तु भवतः पौत्रः एव इति श्रीकृष्णः उक्तवान्!

भीष्मः तदा हसित्वा उक्तवान् हे प्रभो, हे केशव! अहं तु क्षणेभ्यो अन्तरे मृत्युलोकं त्यक्त्वा गन्तास्मि अतः इदानीमपि मया सह मिथ्या न कथयतु सत्यं कथयतु इति !

श्रीकृष्णः तदा पितामहस्य समीपं गत्वा तस्य हस्तं गृहीत्वा उक्तवान् गदतु पितामह भवान् किं वक्तुम् इच्छति निःसन्देहः पृच्छतु इति!

हे वासुदेव! गदतु, अस्मिन् युद्धे यद् अभवत् तत् सर्वं उचितम् आसीत् उत न इति!

भवान् पाण्डवानां विषये पृच्छति उत कौरवाणां विषये पितामह इति श्रीकृष्णः पृष्टवान्!

कौरवाणां कृत्यस्य उपरि चर्चा अर्थहीना एव परन्तु पाण्डवानां पक्षतः यद् अभवत् तत् सर्वं उचितम् आसीत् वा? आचार्य-द्रोणस्य हत्या , दुर्योधनस्य कटेः अधः प्रहारः, जयद्रथं छलेन अहन्, निहत्यः कर्णः अपि अर्जुनेन हतः!

किम् एतत् सर्वं उचितम् आसीत् वा केशव इति पितामहः अपृच्छत्!

एतस्य उत्तरम् अहं कथं दातुं शक्नोमि पितामह! ये युद्धं कृतवन्तः ते एव दद्युः! अहं तु युद्धं न अकरवम् इति श्रीकृष्णः अब्रवीत्!

इदानीमपि छलं न त्यक्तवान् वा केशव? अस्मिन् युद्धे पाण्डवाः विजयं प्राप्तवन्तः इति विश्ववासिनः वा जानन्तु परन्तु अहं जानामि यद् अस्मिन् युद्धे केवलं भवतः एव विजयः अभवत् इति पितामहः उक्तवान्!

तर्हि शृणोतु पितामह! अस्मिन् युद्धे यदपि अभवत् तत् सर्वम् उचितम् एव! न कोऽपि दोषः आसीत्! येन भवितव्यम् आसीत् तदेव अभवत् इति श्रीकृष्णः अब्रवीत्!

एतद् वचनं भवान् कथयति वा केशव? मर्यादापुरुषोत्तम-रामस्य अवतारः श्रीकृष्णः कथयति वा?

एतत् छलं तु अस्माकं सनातनसंस्कारस्य अङ्गं नासीत् कस्मिन्नपि योगे , तर्हि एतत् छलं कथं वा उचितं भवितुम् अर्हेत् इति पितामहः अकथयत्!

श्रीकृष्णः अब्रवीत्- इतिहासात् शिक्षा ग्रहणीया भवति, निर्णयः च वर्तमानस्य परिस्थितिं दृष्ट्वा ग्रहीतव्यः भवति!

रामः तु त्रेतायुगस्य नायकः आसीत् अहं तु दापरयुगे अस्मि! आवयोः निर्णयः एकः एव न भवितुम् अर्हति पितामह!

नावगतवान् कृष्ण! किञ्चित् विस्तरेण बोधयतु इति पितामहः उक्तवान्!

रामकृष्णयोः मध्ये बहु पार्थक्यम् अस्ति! त्रेतायुगे यत्र दुराचारी रावणः अपि शिवभक्तः आसीत्! तस्य परिवारे विभीषणः यथा महान् देवभक्तः आसीत्, बालिः यथा दुरात्मनः पुत्र अङ्गदः अपि सज्जनः आसीत्!

अतः रामः तथा केनापि सह छलं न अकरोत्!

परन्तु अस्मिन् दापरयुगे कंसः यथा महापापी, जरासन्धः, दुर्योधनः, दुःशासनः, शकुनी, जयद्रथादयः सर्वे महापापिनः आसन्!

तेषां सर्वेषाम् अपि वधः तु छलेन वा भवतु परन्तु आवश्यकः एव आसीत्! पापानां समाप्तेः आवश्यकता आसीदेव इति श्रीकृष्णः उक्तवान्!

भगवान् श्रीकृष्णः इतोऽपि अकथयत् यत् कलियुगे जनाः दापरयुगस्य अपेक्षया अधिकाः क्रूराः भविष्यन्ति! धर्मः रक्षणीयः चेद् जनाः मदपि कठोराः भवेयुः अन्यथा धर्मस्य हानिः भविष्यति इति!

🌹🌹

-प्रदीपः!