महाभारतस्य युद्धे प्रायः विश्वस्य सर्वे राजानः सैनिकाश्च भागं गृहीतवन्तः आसन्।

तस्मिन् युद्धे केवलं रुक्मिणी बलरामः च भागं न गृहीतवन्तौ आस्ताम्।

परन्तु इतोपि एकः महाराजः आसीत् यः युद्धे भागं न गृहीतवान् आसीत् सः उडुपी-नगरस्य महाराजः आसीत्।

कौरवाणां पाण्डवानां च पक्षे ये योद्धारः आसन् तेषां समष्टिः पञ्चाशत् लक्षाधिकाः आसन्।

यदा सः महाराजः युद्धे भागं ग्रहीतुम् आगतवान् आसीत् तदा भ्रातॄणां मध्ये युद्धं दृष्ट्वा तस्मै न अरोचत।

सः महाराजः अत्यन्तं दूरदर्शी आसीत्।

सः महाराजः युद्धे भागं न गृहीतवान् आसीत्। सः भगवन्तं श्रीकृष्णं पृष्टवान् भगवन्! अस्मिन् युद्धे सर्वे योद्धारः युद्धाय तत्पराः दृश्यन्ते परन्तु तेषां भोजनस्य व्यवस्था कथं भवेत् इति विषये भवता का योजना कृता अस्ति इति।

तदा श्रीकृष्णः उक्तवान् हे राजन्! भवतः उत्तमः प्रश्नः। अस्मिन् विषये तु कापि योजना न कृता। परन्तु अस्मिन् विषये भवतः समीपे कापि योजना अस्ति चेत् कृपया वदतु इति।

तदा महाराजः उक्तवान् भगवन्! मम इच्छा सन्ति यद् अस्मिन् युद्धे ये ये योद्धारः सैनिकाः च आसन् तेषां सर्वेषां कृते अहं भोजनस्य व्यवस्थां करोमि, मम सैनिकाः पाकं करिष्यन्ति इति।

भगवान् श्रीकृष्णः तस्मै महाराजाय अनुमतिम् अददात्।

पञ्चाशत् लक्षजनानां कृते भोजनस्य व्यवस्था न सहजा , तथापि सः महाराजः कुशलतया तत् कार्यं करोति स्म।

प्रतिदिनं सहस्रसैनिकानां मृत्युः भवति चेदपि तद्दिने यद् भोजनस्य निर्माणं भवति तेन भोजनेन सर्वेषां उदरः पूर्णः भवति। मनागपि भोजनं न अवशिष्टं भवति तेन कस्यापि न्यूनमपि न भवति स्म।

एवमेव युद्धं समाप्तम् अभवत्।

तस्य महाराजस्य पाककार्ये निपुनतां दृष्ट्वा महाराजः युधिष्ठिरः तं पृष्टवान् महाराज। भवान् प्रतिदिनं यद् भोजनस्य निर्माणं करोति तेन सर्वेषाम् उदरः पूर्णः भवति मनागपि अन्नकणा अवशिष्टा न भवति। भवता कथं ज्ञायते यद् अद्यतने युद्धे एतावन्तः सैनिकाः योद्धारः च म्रियन्ते इति।

तदा सः महाराजः युधिष्ठिरं पृष्टवान् महाराज! अस्मिन् युद्धे भवतः विजयः अभवत् इति तु सत्यम्, परन्तु अस्य विजयस्य श्रेयः भवान् कस्मै दातुम् इच्छति इति।

तदा युधिष्ठिरः उक्तवान् निश्चयेन भगवते वासुदेवाय एव ददामि इति।

तदा सः महाराजः उक्तवान् तर्हि शृणोतु राजन् ( युधिष्ठिरम्) buscar! प्रत्येकं दिने युद्धस्य समाप्तेः परं सायंकाले यदा भगवान् श्रीकृष्णः स्वप्रकोष्टम् आगच्छति तदा सः बादामफलानि खादति स्म।

भगवान् यद् फलं खादति तदनु सैनिकानां मृत्युः भवति तन्नाम यदि भगवान् श्रीकृष्णः एकं फलं खादति तर्हि एकसहस्रसैनिकाः म्रियन्ते इति अर्थात् सहस्रगुणाः म्रियन्ते इति।

तदा महाराज युधिष्ठिरः अस्मिन् युद्धे अस्माकं विजयः भगवतः श्रीकृष्णस्य एव कृपा इति ज्ञात्वा तं नमस्कृतवान् आसीत् इति शुभम्।

-प्रदीपः!