मूर्ख मित्रं विपज्जनकः!

पुराकाले विक्रमादित्यः इति एकः महाराजः आसीत् इति सर्वे जानन्ति।

तस्य एकः पोष्य वानरः आसीत्।

सः महाराजः तस्मिन् वानरे बहु प्रीणाति स्म।

महाराजः यत्र गच्छति सः वानरः अपि तत्र गच्छति स्म।

अपिच महाराजस्य कार्ये सः वानरः साहाय्यं करोति स्म।

एकदा महाराजः भ्रमणाय उद्यानं गतवान् आसीत्। तेन सह वानरः अपि आसीत्।

तदा एकस्मात् गर्तात् एकः सर्पः बहिः आगत्य महाराजस्य पृष्ठतः विद्यमानः आसीत्।

राजा विक्रमादित्यः किन्तु तं सर्पं न अपश्यत्।

वानरः किन्तु तं सर्पं दृष्टवान् आसीत्।

सर्पः महाराजस्य समीपम् आगच्छति इति दृष्ट्वा वानरः तं हस्तेन गृहीत्वा दूरे अक्षिपत्।

एवं सः वानरः महाराजस्य प्राणान् रक्षितवान् आसीत्।

तस्मात् घटनात् परं वानरे तस्य महाराजस्य विश्वासः इतोऽपि अवर्धत।

महाराजः तदा चिन्तितवान् आसीत् यत् सः वानरः एव मम देहरक्षकः भवतु इति।

महाराजः राजसभायां घोषणां कृतवान् यत् अद्यारभ्य सः वानरः एव मम देहरक्षकः भविष्यति इति। परन्तु सभायाम् उपस्थिताः केचन जनाः एतस्य आपत्तिं कृतवन्तः आसन् परन्तु महाराजः तद् न अमन्यत।

एवमेव सः वानरः महाराजस्य देहरक्षकः अभवत्।

एकदा महाराजः भ्रमणं कृत्वा गृहम् आगतवान् आसीत्। सः श्रान्तः आसीत्।

महाराजः वानरम् उक्तवान्- इदानीम् अहं श्रान्तः अस्मि अतः किञ्चित् विश्रामं करोमि।

कोऽपि मां बाधाप्रधानं न कुर्यात् , तदर्थं त्वं मम पार्श्वे उपविश्य स्वधर्मं पालय इति।

अस्तु महाराज! भवान् शयनं करोतु अहमस्मि भवतः पार्श्वे इति वानरः उक्तवान्।

महाराजः सुप्तवान् आसीत्, सः वानरः तस्य समीपे उपविश्य सर्वं पश्यन् आसीत्।

तदा एव एका मक्षिका आगत्य महाराजस्य मुखे उपाविशत्।

वानरः तां मक्षिकां ताडयति किन्तु पुनः मक्षिका आगत्य महाराजस्य मुखे उपविशति स्म।

मक्षिका न गच्छति इति दृष्ट्वा सः वानरः तां मक्षिकां ताडयितुं महाराजस्य खड्गं स्वीकृत्य तस्याः उपरि प्रहारं कृतवान् परन्तु मक्षिका उड्डीय गतवती खड्गेन च महाराजस्य हस्तः व्रणितः अभवत्।

वेदनां प्राप्य महाराजः चित्कारं कृत्वा शयनात् उत्थितवान् आसीत्।

राज्यसभायां स्थिताः अन्ये जनाः तदा धावित्वा आगत्य एतद् दृष्ट्वा ते वानरं मारितुम् उद्यतः अभवन्।

तान् तदा महाराजः उक्तवान्- तं वानरं भवन्तः न घ्नन्तु। तस्य दोषः तु नास्ति एव, दोषः तु मम। कारणम् अहमेव तस्मिन् विश्वासं कृतवान् आसम्।

तस्मिन् ज्ञानम् एव नास्ति इति।

प्रदीपः!