पुराकाले सिद्धार्थो नाम एकः बालकः आसीत्!

एकदा सः उपवनम् अगच्छत्!

उपवनं मनोहरम् आसीत्!

बहवः खगाः तत्र कलरवं कुर्वन्ति स्म राजहंसाः च स्वच्छन्दं विचरन्ति स्म!

तेषु केचन जलेषु, केचन स्थलेषु, केचन च वृक्षेषु आसन्!

सहसा एकः राजहंसः वृक्षात् अपतत्! सः शरेण आहतः आसीत्!

सः पीडया करूण-क्रन्दनं करोति स्म!

तस्य रोदनं श्रुत्वा सिद्धार्थः दुःखितः अभवत्!

सः तं हंसं कुटीरम् आनयत् तस्य सेवां च अकरोत्!

यदा तस्य सेवया सः हंसः स्वस्थः अभवत् तदा तत्र देवदत्तः इति नाम्नः एकः बालकः आगच्छत् अवदत् च – अयं मम हंसः इति!

तदा सिद्धार्थः अवदत्- अहम् इमं न दास्यामि, अयं हंसः मम अस्ति इति!

देवदत्तः पुनः अवदत्- अयं मम हंसः, अहं इमं शरेण अपातयम् !

अहम् अस्य मांसं भक्षयिष्यामि इति!

सिद्धार्थः अवदत्- अहम् इमं रक्षां कृतवान् अतः अयं हंसः मम एव इति!

एवं तयोः बालकयोः विवादः अभवत्!

तौ न्यायाधीशस्य समीपम् अगच्छताम्!

तत्र स्वं स्वं पक्षम् अवदताम्!

न्यायाधीशः सर्वं वृत्तान्तम् अशृणोत् निर्णयं च अकरोत्!

“रक्षकः भक्षकात् प्रशस्यतरः भवति” ! सिद्धार्थः अस्य रक्षकः अतः सः एव हंसं नेयतु इति!

🌹🌷

-प्रदीपः