विजयनाथः इति कश्चन महान् भगवद्भक्तः आसीत्!

सः सर्वदा हसन्मुखः एव तिष्ठति स्म!

तं हसन्मुखं दृष्ट्वा कश्चन वणिक् तस्य समीपम् आगत्य पृष्टवान् श्रीमन्! भवान् सर्वदा हसन्मुखः एव तिष्ठति, एतस्य रहस्यं किम् इति!

विजयनाथः उक्तवान् महोदय! एतस्य रहस्यं किम् इति अहम् अनन्तरं कथयिष्यामि परन्तु भवतः मुखं दृष्ट्वा अहं वक्तुं शक्नोमि यत् सप्तदिनेभ्यो अन्तरे भवतः मृत्युः भविष्यति इति!

विजयनाथस्य वचनं श्रुतवतः वणिजः महद् दुःखम् अभवत्!

सः वणिक् किमपि अनुक्त्वा ततः निर्गतवान्!

गृहं गत्वा सः वणिक् केनापि सह वार्तालापम् अपि न करोति स्म! भोजनम् अपि त्यक्तवान् आसीत्! मृत्युभयं एव तं पीडयति स्म!

तत्कारणतः सः क्षीणः अपि जातः आसीत्!

एवमेव षड्दिनानि अतीतानि , सप्तमे दिने सः वणिक् विजयनाथस्य गृहं गतवान्!

तं वणिजं दृष्ट्वा विजयनाथः पृष्टवान् महोदय! भवान् एषु सप्तदिनेषु किं किं पापकार्यं कृतवान् इति!

वणिक् उक्तवान् श्रीमन्! मृत्युभयेन अहं भोजनम् अपि त्यक्तवान्, केनापि सह वार्तालापम् अपि कर्तुं न इच्छामि, केवलं रामनाम जपं कुर्वन् कालं यापयामि , एवं सति कथं वा अहं पापकार्यं करवाणि इति!

तदा विजयनाथः तस्य शान्तनं कुर्वन् उक्तवान् महोदय! भवतः मरणदिनाङ्कः अग्रे गतः! अतः चिन्तां न करोतु!

परन्तु मृत्युः उपस्थितः अस्ति इति मत्वा नितरां रामनामजपनेन मनः सर्वदा शान्तं तिष्ठति! अहमपि एतदेव करोमि!

अतः मम मनः सर्वदा प्रसन्नं तिष्ठति! मम मनसः प्रसन्नतायाः रहस्यम् एतदेव इति!

🌹🌷

-प्रदीपः!!