एकः सज्जनः एकस्य गृहं गत्वा तस्य गृहस्य घण्टां नोदितवान्।
तदा गृहात् बहिः एकः बालकः आगत्य तं पृष्टवान् किं पितृभ्य। किमपि कार्यम् अस्ति वा?
सज्जनः- पुत्र। तव पिता कुत्र अस्ति, तं आह्वय किञ्चित् कार्यम् अस्ति।
बालकः- सः तु गृहे नास्ति। सः तु विपणिं गतवान्।
सज्जनः- तर्हि तव अग्रजम् आह्वय, तेन सह एव वार्तां करोमि।
बालकः- अग्रजः तु क्रीडितुं बहिः गतवान्।
सज्जनः- तर्हि तव माता तु अस्त्येव गृहे, ताम् आह्वय, तया सह वार्तां कृत्वा गच्छामि।
बालकः- सा अपि गृहे नास्ति, महिलानाम् एकस्मिन् सम्मेलने सा इदानीम् अस्ति।
सज्जनः तदा किञ्चित् कुपितः भूत्वा उक्तवान् – गृहस्य सर्वे यदि बहिः गतवन्तः तर्हि त्वं किमर्थं गृहे असि ? त्वम् अपि कुत्रापि गच्छ।
बालकः- आम्, पितृभ्य! अहमपि इदानीं मम मित्रस्य गृहे एव अस्मि।
-प्रदीपः!