वाल्मीकिः एकदा स्नानार्थं तमसानदीं गच्छन् आसीत्। मार्गे एकस्मिन् वृक्षे क्रौञ्चपक्षियुग्मं प्रणयरतम् आसीत्। अकस्मात् एकः व्याधः बाणं विमुच्य तयोः एकं क्रौञ्चं मारितवान्। तदा क्रौञ्ची बहु व्यलपत्। तस्याः करुणविलापं दृष्ट्वा आहतः वाल्मीकिः व्याधं सहसा शप्तवान्। सः शापः वेदात् अनन्तरं जातः अनुष्टुप्छन्दसः प्रथमाविष्कारः।

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।

वाल्मीकिमुनेः प्रत्यग्रम् उत्पन्नां कवित्वशक्तिं दृष्ट्वा ब्रह्मदेवः तस्य पुरतः आविरभूत्। तेन च वाल्मीकिः रामायणरचनाय आदिष्टः। तदनुगुणं वाल्मीकिः चतुर्विंशतिसहस्रश्लोकैः रामचरितं वर्णितवान्।

एतदेव भारतस्य आदिकाव्यं वाल्मीकिः आदिकविश्च।

जनानां कृते आदर्शभूतं रामचन्द्रचरितं रामायणकाव्येन जगति प्रसिद्धतां नीतम्।

🌸