विद्यालये शिक्षकः छात्रान् पृष्टवान्- अस्मिन् जगति वास्तविकप्रेमप्रतीकं किम्?

छात्राः सर्वे एकस्वरेण उत्तरितवन्तः ताजमहल इति!

परन्तु अन्ते एकः छात्रः आसन्दात् उत्थाय उक्तवान्- श्रीमन्! वास्तविक प्रेम्नः प्रतीकं तु रामसेतुः वर्तते! यश्च विश्वप्रसिद्धः अस्ति!

शिक्षकः- तत् कथम्?

छात्रः – भगवान् रामः स्वस्य प्रियायाः पत्न्याः सीतायाः रक्षणार्थं समुद्रस्य उपरि वानरैः सेतोः निर्माणं कारयित्वा लङ्कां गत्वा रावणेन सह युद्धं कृत्वा तस्य प्रियायाः रक्षां कृतवान् आसीत्!

अन्ते च भगवान् सर्वान् वानरान् अपि सम्मानितवान् !

परन्तु शाहजाहां यत् कृतवान् तत् प्रेम न अपितु वासना क्रूरता च आसीत्!

यैः श्रमिकैः सः शाहजाहां ताजमहलस्य निर्माणं कारितवान् आसीत् तेषां समेषां श्रमिकानां हस्तौ खड्गेन खण्डितवान् आसीत्!

🌹🌷

-प्रदीपः