रचनाकारः – शशिपालशर्मा’बालमित्रः’
स्वरः – प्रिया
चलचित्रनिर्माता – गोपालकृष्णमिश्रः

विश्वे ह्यशेषदेशाद् रम्यं नु भारतं नः।
स्मः पक्षिणः सुकण्ठाः एषास्ति वाटिका नः।।

सर्वोच्छ्रितः स शैलो नभसः सखा विशालः।
प्रहरी स नः पुराणो देशस्य रक्षको नः।।

शतशः सरित्प्रवाहाः क्रोडेऽस्य क्रीडलीलाः।
यत्सिंचितोपवन्यैः स्वर्गोऽपि हीनशोभः।।

न हि सम्प्रदायशिक्षा वैराय शोभते भोः।
हिन्दूस्वदेशवासे स्मो हिन्दवो हि सर्वे।।

यूनानमिस्ररोमा लुप्ता ह्यनेकदेशाः।
यातानि युगयुगानि देशो हि शाश्वतो नः।।