शृगालः च रजकः।

एकदा एकः शृगालः धावित्वा एकस्य रजकस्य गृहं गत्वा भीतः सन् रजकम् उक्तवान् भोः महोदय! कृपया मां रक्षतु। सर्वे ग्रामीणाः मां ताडयन्तः सन्ति। ते सर्वे मम पृष्ठतः धावित्वा आगच्छन्ति इति।

रजकः तदा अस्तु इत्युक्त्वा शृगालम् उक्तवान् त्वं मम दारोः गृहं गत्वा गूहित्वा उपविश।

तदा शृगालः तत्र गत्वा उपविष्टवान्।

किञ्चित् कालानन्तरं सर्वे ग्रामीणाः तत्र आगत्य रजकं पृष्टवन्तः भोः महाशय https://apoteksv.se/! अत्र कोऽपि शृगालः आगतोऽस्ति वा? सः शृगालः बहुः दुष्टः अस्ति, अस्माकं हंसाः कुक्कुटाः च खादति।

तदा रजकः उक्तवान् न न महोदयाः। अत्र तु कोऽपि शृगालः न आगतः। सः रजकः एवम् उक्तवान् परन्तु तस्य हस्तेन संकेतं कृत्वा उक्तवान् मम तस्मिन् गृहे अस्ति शृगालः इति।

परन्तु तस्य संकेतम् अवगन्तुम् अशक्ताः ते ग्रामीणाः तस्य वचनं श्रुत्वा एव ततः निर्गतवन्तः आसन्।

तेषां गमनात् परं सः शृगालः ततः मौनेन एव गमनम् आरब्धवान्।

तदा रजकः तं शृगालम् उक्तवान् भोः शृगाल। अहं त्वं रक्षितवान् परन्तु इदानीं त्वं मौनेन एव मह्यं धन्यवादमपि न ज्ञापयित्वा गच्छन् असि इति।

तदा शृगालः उक्तवान् – आम् सत्यम्। भवान् मां रक्षितवान् परन्तु भवतः कथनं च कार्यं च भिन्नम् आसीत्।

भवान् यत् संकेतं कृतवान् आसीत् तद् यदि ग्रामीणाः अवगन्तुम् अशक्ष्यन् तर्हि तु अहम् अद्य न अजीविष्यम्।

अहं गृहात् सर्वं पश्यन् आसम्, अतः मौनेन गच्छन् अस्मि इति।

प्रदीपः!