पटेलः- नेहरू महोदय! आगच्छतु, त्रिचक्रिकायाम् उपविशतु!

नेहरू- नहि महोदय! अहं खानमहोदयेन सह महत्वपूर्णां वार्तां कुर्वन् अस्मि!

पटेलः- का एतावती महत्वपूर्णा वार्ता?

नेहरू- सः पाकिस्तानं गन्तुम् इच्छति परन्तु सः अत्रैव भारते तिष्ठतु इति अहम् इच्छामि!

पटेलः- तर्हि सः पाकिस्तानं गच्छेत्! पुनः तर्हि पाकिस्तानस्य जन्म किमर्थम् अभवत्!

नेहरू- तत्तु सत्यं परन्तु तेन सह पञ्चलक्षमुस्लिमजनाः पाकिस्तानं गमिष्यन्ति!

पटेलः- इयं तु शोभा वार्ता अस्ति! गच्छेयुः ते!

नेहरू- परन्तु देहली तु रिक्ता भविष्यति!

पटेलः- लाहौरतः ये हिन्दवः आगमिष्यन्ति तैः देहली पूर्णा भविष्यति!

नेहरू- न न, तेभ्यः अहं मुस्लिमानां गृहाणि न दास्यामि!

अहं वक्क बोर्ड इत्यस्मै समर्पयिष्यामि!

पटेलः- परन्तु लाहौरे हिन्दूनां मन्दिराणि, गृहाणि विद्यालयाः च मुसलमन्तः गृहीतवन्तः!

नेहरू- ते किं कुर्वन्ति इति वयं न पश्यामः!

वयं तु भारतदेशं धर्मनिरपेक्षः इति कारयिष्यामः !

पटेलः- परन्तु देशस्य भागः तु धर्मस्योपरि अभवत्!

अतः अयं देशः केवलं हिन्दूनां एव अस्ति!

नेहरू- नहि! अयं देशः कांग्रेसदलस्य अस्ति, कांग्रेसदलं यथा इच्छति तथा एव भविष्यति!

पटेलः- इतिहासः एव परिवर्त्यते , आङ्ग्लशासकाः अपि गच्छन्ति, तर्हि कांग्रेसदलं किम्?

यवनाः सप्तशतं वर्षेभ्यः पश्चात्, आङ्ग्लशासकाः द्विशतं वर्षेभ्यः पश्चात् गतवन्तः! कांग्रेसदलम् अपि पञ्चाशत्- षष्टिवर्षेभ्यः पश्चात् गमिष्याति! जनाः कांग्रेसदलम् अपि विस्मरिष्यन्ति!

नेहरू- एवं कदापि नैव भविष्यति!

पटेलः – निश्चयेन भविष्यति!

भवान् यवनानां विचारान् त्यजतु इत्युक्त्वा पटेलमहोदयः त्रिचक्रिकाचालकम् उक्तवान्! इदानीं गच्छतु, अहं तु मूर्खेण सह वार्तां कृतवान् आसम्!

-प्रदीपः!!