एकः कृषकः आसीत्!
सः पुत्रेण सह निवसति स्म beit-mirkahat.com!
वर्षाकालः आसीत्!
सः कृषकः क्षेत्रेषु बीजवपं कृतवान् आसीत्! वृष्टिः अपि सम्यक् आगता! वातावरणं मनोहरं आसीत्!
एकदा सः कृषकः पुत्रेण सह क्षेत्रं गतवान्! पुत्रः सर्वं परिशीलनं कृतवान्! बीजानि अङ्कुरितानि सन्ति इति दृष्ट्वा स्वपितरम् उक्तवान्- तात! अस्मिन् वर्षे वृष्टिः सम्यक् एव अस्ति, अतः धान्यं भूरि लभ्येत इति!
परन्तु तस्य पिता उक्तवान् पुत्र! सर्वं भाग्यायत्तम् एव इति!
कानिचन दिनानि अतीतानि, इदानीं तु सम्यक् बीजानि अङ्कुरितानि सन्ति!
पुत्रः पुनः पूर्णविश्वासेन उक्तवान् तात! निश्चयेन अस्मिन् वर्षे समीचीनः फलागमः भविष्यति इति!
किन्तु इदानीमपि पिता उक्तवान्- पुत्र! सर्वं भाग्यायत्तम् एव इति!
ततः द्वित्राः मासाः अतीताः , अङ्कुरितानि बीजानि सस्यरूपेण सम्यक् प्रवृद्धानि!
तानि पुष्पितानि अनन्तरं फलितानि चापि!
इदानीं पुनः पुत्रः पूर्णविश्वासेन पितरम् उक्तवान् तात! निश्चयेन अस्मिन् वर्षे महती फलसमृद्धिः भविष्यति इति!
परन्तु इदानीमपि पिता सर्वं भाग्यायत्तम् इति उक्तवान्!
गच्छता कालेन धान्यं सुपक्कं जातम्!
धान्यसहितानि सस्यानि कर्तयित्वा गृहं नीतवन्तः!
तत्र सस्येभ्यः धान्यं पृथक् कृतवन्तः!
अनन्तरं तेन धान्येन पाकमपि सज्जीकृतवन्तः !
तदा कृषकस्य गृहे सर्वे भोजनार्थं उपविष्टवन्तः आसन् !
तदा पुत्रः पितरम् उद्दिश्य उक्तवान् तात! पश्यतु अस्माकं परिश्रमस्य फलम् अस्माकं पुरतः एव! वयम् इदानीं भोक्तुं शक्नुमः इति!
परन्तु तदानीमपि पिता सर्वं भाग्यायत्तम् इति पुनः उक्तवान्!
सर्वं भाग्यायत्तम् इति पुनः पुनः पितुः मुखात् तदेव वचनं श्रुत्वा सः पुत्रः अत्यन्तं कुपितः अभवत्!
तदा सः स्थालिकायाः उपरि कोपेन पादप्रहारं कृतवान्!
अन्नकणाः सर्वत्र वीकिर्णाः अभवन्! भोजनम् अकृत्वा एव सः ततः गतवान्!
किञ्चित् कालानन्तरं यदा तस्य कोपस्य उपशमनम् अभवत् तदा सः चिन्तितवान् यत् पितुः वचनं सत्यमेव, सर्वं भाग्यायत्तम् इति!
ईश्वरस्य इच्छां विना किमपि न भवति!
पुरतः प्रसृतेषु अन्नकणेषु सः अकमपि अन्नं खादितुं न शक्तवान्!
अतः पितुः वचनं सत्यम् इति सः अङ्गीकृतवान्!
🌹🌷
-प्रदीपनाथ:!!