सर्वेषां नो जननी
भारतधरणी कल्पलतेयम्
जननी-वत्सल-तनय-गणैस्तत्
सम्यक् शर्म विधेयम्॥ ध्रुवम्॥

हिमगिरि-सीमन्तित-मस्तकमिदम्
अम्बुधि-परिगत-पार्वम्
अस्मज्जन्मदमन्नदमनिशं
श्रौतपुरातनमार्षम्॥१॥

विजनितहर्षं भारतवर्षं
विश्वोत्कर्षनिदानम्
भारतशर्मणि कृतमस्माभि:
नवमिदमैक्यविधानम्॥२॥

भारतहित-सम्पादनमेव हि
कार्यं त्विष्टविपाकम्
भारतवर्जं न किमपि कार्यं
निश्चितमित्यस्माकम्॥३॥

भारतमेका गतिरस्माकं
नापरास्ति भुवि नाम।
सर्वादौ हृदयेन च मनसा
भारतमेव नमाम॥४॥