सहसा न विदधीत क्रियाम्

एकस्मिन् ग्रामे एका महिला वसति स्म ।सा एकं नकुलं पालयति स्म ।नकुलस्य विषये तस्याः बहु प्रीतिः आसीत् । महिलायाः एकः शिशुः अपि आसीत् ।तस्याः समीपे जलं नासीत् ।जलम् आनेतुं सा दूरं गच्छति स्म ।

एकस्मिन् दिने सा जलम् आनेतुं अगच्छत् ।गृहे कोऽपि नासीत् । तस्याः शिशुः निद्रितः आसीत् ।महिला बहिः गता । तदा गृहे एकः सर्पः आगतः । नकुलः सर्पम् अपश्यत् । सर्पः शिशुसमीपम् अगच्छत् ।नकुलः तत्क्षणे एव सर्पस्य उपरि अपतत्। क्षणमात्रेण एव सर्पम् अमारयत्।

महिला जलं गृहित्वा आगता ।द्वारे एव नकुलः उपविष्टः आसीत् ।महिला नकुलस्य मुखम् अपश्यत् ।नकुलस्य मुखम् रक्तमयम् ।सा अचिन्तयत्- “अयं नकुलः मम शिशुम् अखादत्। अतः एव अस्य मुखं रक्तमयम् ” इति। सा तत्क्षणे एव एकं शिलाखण्डं नकुलस्य उपरि अक्षिपत् । नकुलः मृतः।अनन्तरं महिला गृहस्य अन्तः गता। तत्र शिशुः क्रीडति तत्रैव मृतसर्पः अस्ति ।सा बहु दुखीता अभवत् ।अविचारेण मया नकुलः संहृतः।इति सा पश्चात्तापेन पीड़िता अभवत् ।

अतः किमपि कार्यं सहसा न कर्तव्यम् । विचारं कृत्वा एव कर्तव्यम् ।