अस्माकं भारतदेशे अगस्त मासस्य पञ्चदश दिनाङ्के स्वाधीनता दिवसः पाल्यते!

सर्वे जानन्ति यत् 1947 तमे वर्षे अगस्त मासस्य पञ्चदश दिनाङ्के अस्माकं देशः स्वाधीनः अभवत्!

परन्तु ततः पूर्वं 30 दिसम्बर 1943 तमे वर्षे प्रथमवारं आन्दामान् निकोबारे सुभाष चन्द्र बसु महोदयः त्रिवर्णध्वजोत्तलनं कृतवान् आसीत्!

स्वतन्त्रतायाः मान्यता अपि प्राप्ता आसीत् बसुमहोदयेन!

सः एव प्रथमवारं आजाद् – हिन्द्- सर्वकारस्य निर्माणं कृतवान् आसीत्!

ततः पूर्वं न्यूनातिन्यूनं द्विशतं वर्षाणि यावत् इङ्गलैण्डदेशीय जनाः अस्माकं देशस्य शासनम् अकुर्वन् slovenska-lekaren.com!

स्वाधीनता प्राप्तेः हेतुः बहवः भारतीयाः वीराः बलिदानम् अभवन्!

तेषु मुख्याः खुदिराम बसुः , चन्द्रशेखरः आजादः, भगत सिंहः , रामप्रसाद बिस्मिल: , दीनदयल उपाध्यायः, श्यामाप्रसाद मुखपाध्याय: सुभाष चन्द्र बसु: च आसन्!

महिलानां मध्ये अपि बह्व्यः आसन्, तासु कनकलता, लक्ष्मीबाई च !

स्वाधीनता प्रत्येकस्य अपि मौलिकः अधिकारः वर्तते!

प्रत्येकं वर्षे स्वाधीनता दिवसे देशस्य प्रधानमन्त्रिणा लालकिलायं राष्ट्रीयध्वजः उत्तोल्यते !

तदनन्तरं प्रधानमन्त्री लालकिलातः राष्ट्रं संबोधयति!

अस्मिन् दिवसे विद्यालयाः, कार्यालयाः , वित्तकोषाः , सर्वे च सर्वकारस्य संस्थाः पिहिताः भवन्ति!

तस्मिन् दिने सर्वकारस्य सर्वेषु संस्थासु राष्ट्रीयध्वजः उत्तोल्यते!

राष्ट्रीय पर्वरूपेण जनाः स्वाधीनतादिवसं पालयन्ति!

-प्रदीपः