Bhagvadgita 1-28 1-29, श्रीमद्भगवद्गीता १-२८ १-२९

श्लोकः
अर्जुन उवाच।
दृष्ट्वेमं स्वजनम् कृष्ण युयुत्सुं समुपस्थितम्।।१-२८।।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते।।१-२९।।

सन्धि विग्रहः
अर्जुनः उवाच।
दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम्।।१-२८।।
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति।
वेपथुः च शरीरे मे रोम-हर्षः च जायते।।१-२९।।

श्लोकार्थः
अर्जुनः उवाच।
हे कृष्ण!  इमम्  स्वजनम् युयुत्सुम् समुपस्थितम्  दृष्ट्वा
मम गात्राणि  सीदन्ति मुखम् च परिशुष्यति, मे  शरीरे
वेपथुः च रोम-हर्षः च जायते

शब्दार्थः
अर्जुनः उवाच।=Arjuna Said
1.28 दृष्ट्वा=after seeing इमम्=all these स्वजनम्=kinsmen कृष्ण=O Krishna युयुत्सुम्=all in a fighting spiritसमुपस्थितम्=present
1.29 सीदन्ति=are quivering मम=my गात्राणि=limbs of the body मुखम्=mouth च=also परिशुष्यति=is drying up वेपथुः=trembling of the body च=also शरीरे=on the body मे=my रोम-हर्षः=standing of hair on end च=alsoजायते=is taking place

Meaning
1.28: Overcome by supreme compassion and bemoaning, Arjuna spoke, O Krishna, seeing these relatives with intention to fight and readying for battle…
1.29: My limbs are afflicted with fatigue; my mouth is parched; my body is trembling; my hair stands on end.

Bhagvadgita 1-26 1-27, श्रीमद्भगवद्गीता १-२६ १-२७

श्लोकः
तत्रापश्यत्स्थितान्पार्थः पितृनथ पितामहान्।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा।।१-२६।।
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।१-२७।।
कृपया परयाविष्टो विषीदन्निदमब्रवीत्।

सन्धि विग्रहः
तत्र अपश्यत् स्थितान् पार्थः पितृन् अथ पितामहान्।
आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् तथा।।१-२६।।
श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि।
तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान्।।१-२७।।
कृपया परयाविष्टः विषीदन् इतम् अब्रवीत्।

श्लोकार्थः
अथ पार्थः उभयोः सेनयोः अपि, तत्र स्थितान् पितृन्,
पितामहान्, आचार्यान्, मातुलान्, भ्रातृन्, पुत्रान्,
पौत्रान् तथा सखीन्, श्वशुरान् सुहृदः, च एव अपश्यत् सः कौन्तेयः।
तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य परया कृपया आविष्टः,
विषीतन् इदम् अब्रवीत्।

शब्दार्थः
1.26 तत्र=there अपश्यत्=he could see स्थितान्=standing पार्थः=Arjuna पितृन्=fathers अथ=alsoपितामहान्=grandfathers आचार्यान्=teachers मातुलान्=maternal uncles भ्रातृन्=brothers पुत्रान्=sonsपौत्रान्=grandsons सखीन्=friends तथा=too
1.27 श्वशुरान्=fathers in law सुहृदः=well-wishers च=also एव=certainly सेनयोः=of the armies उभयोः=of both parties अपि=including तान्=all of them समीक्ष्य=after seeing सः=he कौन्तेयः=the son of Kunti सर्वान्=all kinds of बन्धून्=relatives अवस्थितान्=situated कृपया=by compassion परयाविष्टः=of a high grade overwhelmed विषीदन्=while lamenting इतम्=thusअब्रवीत्=spoke

Meaning
1.26: Partha could see standing there (on the battlefield) fathers, also grandfathers, teachers, maternal uncles, brothers, sons, grandsons, friends too
1.27 Arjuna seeing fathers-in-law, well-wishers and relatives assembled besides the armies of both sides…

Bhagvadgita 1-24 1-25, श्रीमद्भगवद्गीता १-२४ १-२५

श्लोकः
सञ्जय उवाच।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयेत्वा रथोत्तमम्।।१-२४।।
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।१-२५।।

सन्धि विग्रहः
सञ्जयः उवाच।
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत।
सेनयोः उभयोः मध्ये स्थापयेत्वा रथ-उत्तमम्।।१-२४।।
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम्।
उवाच पार्थ पश्य-एतान् समवेतान् कुरून् इति।।१-२५।।

श्लोकार्थः
सञ्जयः उवाच।
हे भारत! एवम्  गुडाकेशेन  उक्तः  हृषीकेशः, उभयोः  सेनयोः  मध्ये,
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम्
रथ-उत्तमम्  स्थापयेत्वा, ‘हे पार्थ! एतान् समवेतान् कुरून्
पश्य’, इति उवाच।

शब्दार्थः
सञ्जयः उवाच = Sanjaya said
1.24 एवम्=thus उक्तः=addressed हृषीकेशः=Lord Krishna गुडाकेशेन=by Arjuna भारत= O decendant of Bharata सेनयोः=of the armies उभयोः=both मध्ये=in the midst स्थापयेत्वा=placing रथ-उत्तमम्=the finest chariot
1.25 भीष्म=Grandfather Bhishma  द्रोण=the teacher Drona  प्रमुखतः=in front of सर्वेषाम्=all च=also मही-क्षिताम्=chiefs of the world उवाच=said पार्थ=O son of Pritha पश्य=just behold  एतान्=all of themसमवेतान्=assembled कुरून्=the members of the Kuru dynasty इति=thus

Meaning
Sanjaya said:
1.24: O Bharata (Dhrtarāstra), having been addressed by Gudakesana (Arjuna), Hrsikesa (Lord Krishna) placed the best of chariots in the midst of both armies.
1.25: Facing Bhisma, Drona, and all great chiefs (the Lord) said to Partha thus: Behold (all of) the Kurus gathered.

Bhagvadgita 1-23, श्रीमद्भगवद्गीता १-२३

श्लोकः
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः।।१-२३।।

सन्धि विग्रहः
योत्स्यमानान् अवेक्षे अहं ये एते अत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः।।१-२३।।

श्लोकार्थः
दुर्बुद्धेः  धार्तराष्ट्रस्य युद्धे प्रिय-चिकीर्षवः
ये एते अत्र समागताः योत्स्यमानान्  अहम् अबेक्षे।।१-२३।।

शब्दार्थः
1.23 योत्स्यमानान्=those who will be fighting अवेक्षे=let me see अहं=I ये=who एते=those अत्र=hereसमागताः=assembled धार्तराष्ट्रस्य=for the son of Dhritarashtra दुर्बुद्धेः=evil-minded युद्धे=in the fight प्रिय=well चिकीर्षवः=wishing

Meaning
1.23: I wish to see those assembled here willing to fight and serve the evil-minded son of Dhrtarāstra.

Bhagvadgita 1-22, श्रीमद्भगवद्गीता १-२२

श्लोकः
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे।।१-२२।।

सन्धि विग्रहः
यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान्।
कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे।।१-२२।।

श्लोकार्थः
यावत्  अहम्  योद्धु-कामान् अवस्थितान्  एतान् निरीक्षे;
अस्मिन्  रण-समुद्यमे  मया  कैः  सह योद्धव्यम्।।१-२२।।

शब्दार्थः
1.22 यावत्=as long as एतान्=all these निरीक्षे=may look upon अहम्=I योद्धु-कामान्=desiring to fightअवस्थितान्=arrayed on the battlefield कैः=with whom मया=by me सह=together योद्धव्यम्=have to fightअस्मिन्=in this रण=strife समुद्यमे=in the attempt.

Meaning
1.22 I see these warriors with whom I have to fight and who are in battle formation lusting for a fight with me in this war effort.