Bhagavadgita 2-13, श्रीमद्भगवद्गीता २-१3

श्लोकः
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्घीरस्तत्र न मुह्यति।।२-१३।।

सन्धि विग्रहः
देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा।
तथा देहान्तर-प्राप्तिः घीरः तत्र न मुह्यति।।२-१३।।

श्लोकार्थः
देहिनः अस्मिन् देहे यथा कौमारम् यौवनम् जरा, तथा
देहान्तर-प्राप्तिः। तत्र घीरः न मुह्यति।

शब्दार्थः
2.13 देहिनः=of the embodied अस्मिन्=in this यथा=as देहे=in the body कौमारम्=boyhood यौवनम्=youthजरा=youth तथा=similarly देहान्तर=of transference of the body प्राप्तिः=achievement घीरः=the soberतत्र=thereupon न=never मुह्यति=is deluded

Meaning
2.13: As the soul passes from childhood to youth to old age in a body, so also the soul takes another body. This does not confuse a sage (brave, composed and intelligent person).

Bhagavadgita 2-12, श्रीमद्भगवद्गीता २-१२

श्लोकः
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः सर्वे वयमतः परम्।।२-१२।।

सन्धि विग्रहः
न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः।
न च एव न भविष्यामः सर्वे वयम् अतः परम।।२-१२।।

श्लोकार्थः
अहम् जातु न आसम् (इति) न तु एव, त्वम् (जातु न आसीः इति) न,
इमे जनाधिपाः (जातु न आसन् इति) न, ।
अतः परम् च वयम् सर्वे न भविष्यामः (इति) न एव।

शब्दार्थः
2.12 न=never तु=but एव=certainly अहम्=I जातु=at any time न=did not आसम्=exist न=not त्वम्=you न=notइमे=all these जनाधिपाः=kings न=never च=also एव=certainly न=not भविष्या=shall existमः सर्वे वयम्=all of us अतः परम=here after

Meaning
2.12: Never was there a time that neither I, nor you, nor those kings did not exist and nor will all of us stop to exist from now on.

Bhagavadgita 2-11, श्रीमद्भगवद्गीता २-११

श्लोकः
श्रीभगवानुवाच।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।२-११।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादा च भाषसे।
गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः।।२-११।।

श्लोकार्थः
श्रीभगवान् उवाच।
त्वम् अशोच्यान् अन्वशोचः। प्रज्ञा-वादान् च भाषसे।|
पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति।।२-११।।

शब्दार्थः
श्रीभगवान् उवाच = the supreme personality of Godhead said
2.11 अशोच्यान्=not worthy of lamentation अन्वशोचः=you are lamenting त्वम्=you प्रज्ञा-वादा=learned talksच=also भाषसे=speaking सत=lost असून्=life अगतासून्=not past च=also न=never अनुशोचन्ति=lamentपण्डिताः=the learned

Meaning
2.11: Sri Bhagavan (Krishna) said: You grieve for those worth not grieving for, yet you speak words of wisdom. The panditah (learned men) grieve neither for the dead nor for the living.

Bhagavadgita 2-10, श्रीमद्भगवद्गीता २-१०

श्लोकः
तमुवाच हृषिकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।२-१०।।

सन्धि विग्रहः
तम् उवाच हृषिकेशः प्रहसन् इव भारत।
सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः।।२-१०।।

श्लोकार्थः
हे भारत! उभयोः सेनयोः मध्ये विषीदन्तम् (अर्जुनं) तम्
हृषिकेशः प्रहसन् इव इदम् वचः उवाच।

शब्दार्थः
2.10 तम्=unto him उवाच=said हृषिकेशः=the master of the senses, Krishna प्रहसन्=smiling इव=like thatभारत=O Dhritarashtra, descendant of Bharata सेनयोः=of the armies उभयोः=of the both partiesमध्ये=between विषीदन्तम्=unto the lamenting one इदम्=the following वचः=words

Meaning
2.10: O Bharata (Dhritarastra), Hrisikesa smiling with a hint of ridicule, standing between the two armies, spoke the following words to Arjuna who was in acute sorrow.

Bhagavadgita 2-9, श्रीमद्भगवद्गीता २-९

श्लोकः
सञ्जय उवाच।
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह।।२-९।।

सन्धि विग्रहः
सञ्जयः उवाच।
एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह।।२-९।।

श्लोकार्थः
सञ्जयः उवाच।
परन्तपः गुडाकेशः हृषीकेशम् एवम् उक्त्वा  ‘न योत्स्य’
इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह।

शब्दार्थः
सञ्जयः उवाच = Sanjaya said।
2.9 एवम्=thus उक्त्वा=speaking हृषीकेशम्=unto Krishna, the master of the senses गुडाकेशः=Arjuna, the master of curbing ignorance परन्तपः=the chastiser of the enemies न योत्स्य=I shall not fight इति=thus गोविन्दम्=unto Krishna, the giver of pleasure to the sensesउक्त्वा=saying तूष्णीम्=silent बभूव=became ह=certainly

Meaning
2.9: Sanjaya said (to Dhrtrastra): Having spoken thus to Hrisikesam (Krishna), Gudakesa (Arjuna) the conqueror of sleep said to Govinda (Krishna) “I will not fight” and became silent.