Bhagavadgita 3-35, श्रीमद्भगवद्गीता ३-३५

श्लोकः
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्,
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।।३-३५।।

सन्धि विग्रहः
श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात्।
स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः।।३-३५।।

श्लोकार्थः
स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः (अपि) श्रेयान्।
स्वधर्मे निधनम् श्रेयः। परधर्मः भय-आवहः।

शब्दार्थः
3.35 श्रेयान्=far better स्वधर्मः=one’s prescribed duties विगुणः=even faulty परधर्मात्=than duties mentioned for others स्वनुष्ठितात्=perfectly done स्वधर्मे=in one’s prescribed duties निधनम्=destructionश्रेयः=better परधर्मः=duties prescribed for others भय-आवहः=dangerous

Meaning
3.35: It is preferable to do one’s own duty, however deficient it is, than to do the duty of another, however skillful it is. Better is death in performing one’s own duty than to perform the duty of another, for it is inductive of fear.

Bhagavadgita 3-34, श्रीमद्भगवद्गीता ३-३४

श्लोकः
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।३-३४।।

सन्धि विग्रहः
इन्द्रियस्य इन्द्रियस्य-अर्थ राग-द्वेषौ व्यवस्थितौ।
तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ।।३-३४।।

श्लोकार्थः
इन्द्रियस्य-अर्थे इन्द्रियस्य राग-द्वेषौ व्यवस्थितौ,
तयोः वशम् न आगच्छेत्। तौ हि अस्य परिपन्थिनौ।

शब्दार्थः
3.34 इन्द्रियस्य=of the senses इन्द्रियस्य-अर्थ=in the sense objects राग=attachment द्वेषौ=also detachmentव्यवस्थितौ=put under regulations तयोः=of them न=never वशम्=control आगच्छेत्=one should comeतौ=those हि=certainly अस्य=his परिपन्थिनौ=stumbling blocks

Meaning
3.34: Desire and dislike reside in senses and sense objects. Men should not come under their influence for these two are obstructionists (to self-realization)

Bhagavadgita 3-33, श्रीमद्भगवद्गीता ३-३३

श्लोकः
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति।।३-३३।।

सन्धि विग्रहः
सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि।
प्रकृतिम् यान्ति भूतानि नि्ग्रहः किम् करिष्यति।।३-३३।।

श्लोकार्थः
ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशम् चेष्टते।
भुतानि प्रकृतिम् यान्ति। निग्रहः किम् करिष्यति?

शब्दार्थः
3.33 सदृशम्=accordingly चेष्टते=tries स्वस्याः=by his own प्रकृतेः=modes of nature ज्ञानवान्=learned अपि=although प्रकृतिम्=nature यान्ति=undergo भूतानि=all living entities निग्रहः=repression किम्=what करिष्यति=can do.

Meaning
3.33: Even the learned man acts according to his own nature. All beings behave according to their own nature and modes (gunas). What can (Nigrahah) restrict.

Bhagavadgita 3-32, श्रीमद्भगवद्गीता ३-३२

श्लोकः
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः।।३-३२।।

सन्धि विग्रहः
ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम्।
सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः।।३-३२।।

श्लोकार्थः
ये तु एतत् अभ्यसूयन्तः मे मतम् न अनुतिष्ठन्ति, तान्
सर्व-ज्ञान- विमूढान् अचेतसः नष्टान् विद्धि।

शब्दार्थः
3.32 ये=those तु=however एतत्=this अभ्यसूयन्तः=out of envy न=do not अनुतिष्ठन्ति=regularly performमे=my मतम्=injunction सर्व-ज्ञान=in all sorts of knowledge विमूढान्=perfectly befooled तान्=they are विद्धि=know it well नष्टान्=all ruined अचेतसः=without Krishna consciousness

Meaning
3.32: The ignoramus, who is indignant and jealous and does not follow my teachings, is deluded and ignorant of all knowledge of the Self and will come to ruin.

Bhagavadgita 3-31, श्रीमद्भगवद्गीता ३-३१

श्लोकः
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः।।३-३१।।

सन्धि विग्रहः
ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः।
श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः।।३-३१।।

श्लोकार्थः
ये मानवाः श्रद्धावन्तः अनुसूयन्तः इदम् मे मतम्
नित्यम् अनुतिष्ठन्ति, ते अपि कर्मभिः मुच्यन्ते।

शब्दार्थः
3.31 ये=those who मे=my मतम्=injunctions इदम्=these नित्यम्=as an ternal function अनुतिष्ठन्ति=execute regularly मानवाः=human beings श्रद्धावन्तः=with faith and devotion अनसूयन्तः=without envyमुच्यन्ते=become free ते=all of them अपि=even कर्मभिः=from the bondage of the law of fruitive actions

Meaning
3.31: The men who follow the doctrine or teachings of Mine with sraddha (faith) and uncomplaining (anasūya), will become free from the bondage of work – karm