Bhagavadgita 4-21, श्रीमद्भगवद्गीता ४-२१

श्लोकः
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्।।४-२१।।

सन्धि विग्रहः
निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः।
शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम्।।४-२१।।

श्लोकार्थः
निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः, केवलम्
शारीरम् कर्म कुर्वन् किल्बिषम् न आप्नोति।

शब्दार्थः
4.21 निराशीः=without desire for the result यत=controlled चित्त-आत्मा=mind and intelligenceत्यक्त=giving up सर्व=all परिग्रहः=sense of proprietorship over possessions शारीरम्=in keeping body and soul together केवलम्=only कर्म=work कुर्वन्=doing न=never आप्नोति=does acquire किल्बिषम्=sinful reactions

Meaning
4.21: With no desire, and controlled body, mind and senses, giving up sense of ownership and allowing only bodily functions, he doesn’t incur any guilt or sin.

Bhagavadgita 4-20, श्रीमद्भगवद्गीता ४-२०

श्लोकः
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः।।४-२०।।

सन्धि विग्रहः
त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः,
कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः।।४-२०।।

श्लोकार्थः
(यः) कर्म-फल-आसङ्गम् त्यक्त्वा नित्य-तृप्तः निराश्रयः,
सः कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति।

शब्दार्थः
4.20 त्यक्त्वा=having given up कर्म-फल-आसङ्गम्=attachment for fruitive results नित्य=alwaysतृप्तः=being satisfied निराश्रयः=without any shelter कर्मणि=in activity अभिप्रवृत्तः=being fully engaged अपि=in spite of न=does not एव=certainly किञ्चित्=anything करोति=do सः=he

Meaning
4.20: Having given up desire and attachment to fruit of action, always contented, and not dependent, and though engaged in action, he does nothing ever at all.

Bhagavadgita 4-19, श्रीमद्भगवद्गीता ४-१९

श्लोकः
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।४-१९।।

सन्धि विग्रहः
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः।
ज्ञान-अग्नि-दग्ध-कर्माणाम् तम् आहुः पण्डितम् बुधाः।।४-१९।।

श्लोकार्थः
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः, तम्
ज्ञान-अग्नि-दग्ध-कर्माणम् बुधाः पण्डितम् आहुः।

शब्दार्थः
4.19 यस्य=one whose सर्वे=all sorts of समारम्भाः=attempts काम=based on desire for sense gratificationसङ्कल्प=determination वर्जिताः=are devoid of ज्ञान=of perfect knowledge अग्नि=by the fire दग्ध=burnedकर्माणाम्=whose work तम्=him आहुः=declare पण्डितम्=learned बुधाः=thos who know

Meaning
4.19: He, whose task is devoid of any will of desire and whose karma is destroyed by fire of perfect knowledge or wisdom, is called panditah by the wise.

Bhagavadgita 4-18, श्रीमद्भगवद्गीता ४-१८

श्लोकः
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
स बुद्धांन्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।४-१८।।

सन्धि विग्रहः
कर्मणि अकर्म यः यश्येत् अकर्मणि च कर्म यः।
सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत्।।४-१८।।

श्लोकार्थः
यः कर्मणि अकर्म पश्येत् अकर्मणि च यः कर्म (पश्येत्) सः
मनुष्येषु बुद्धिमान्, सः युक्तः, (सः) कृत्स्न-कर्म-कृत्।

शब्दार्थः
4.18 कर्मणि=in action अकर्म=inaction यः=one who यश्येत्=observes अकर्मणि=in inaction च=alsoकर्म=fruitive action यः=one who सः=he बुद्धिमान्=is intelligent मनुष्येषु=in human society सः=he युक्तः=is in the transcendental position कृत्स्न-कर्म-कृत्=although engaged in all activities

Meaning
4.18: He, who sees inaction in action, and action in inaction, is wise among men. He is a yogi (wholesome performer), accomplished in all actions.

Bhagavadgita 4-17, श्रीमद्भगवद्गीता ४-१७

श्लोकः
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः।।४-१७।।

सन्धि विग्रहः
कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः।
अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः।।४-१७।।

श्लोकार्थः
कर्मणः (तत्तवं) हि अपि बोद्धव्यम्, विकर्मणः च (तत्तवं)
बोद्धव्यम्, (तथा) अकर्मणः च (तत्तवं) बोद्धव्यम्,
कर्मणः गतिः गहना।

शब्दार्थः
4.17 कर्मणः=of work हि=certainly अपि=also बोद्धव्यम्=should be understood बोद्धव्यम्=should be understood च=also विकर्मणः=of forbidden work अकर्मणः=of inaction च=also बोद्धव्यम्=should be understood गहना=very difficult कर्मणः=of work गतिः=entrance

Meaning
4.17: One has to know or understand what action is, what wrong action is and what inaction is. It is hard to understand karma’s course or path.