Bhagavadgita 6-42, श्रीमद्भगवद्गीता ६-४२

श्लोकः
अथवा योगिनामेव कुले भवति धीमताम्।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्।।४-४२।।

सन्धि विग्रहः
अथवा योगिनाम् एव कुले भवति धीमताम्।
एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम्।।६-४२।।

श्लोकार्थः
अथवा धीमताम् योगिनाम् एव कुले भवति, यत् एतत्
ईदृशम् जन्म लोके दुर्लभतरं हि।

शब्दार्थः
6.42 अथवा=or योगिनाम्=of learned transcendentalist एव=certainly कुले=in the family भवति=takes birthधीमताम्=of those who are endowed with great wisdom एतत्=this हि=certainly दुर्लभतरं=very rareलोके=in this world जन्म=birth यत्=that which ईदृशम्like this

Meaning
6.42: Or such a yogi takes his birth in the family of yogins endowed with great wisdom; a birth like this is very rare indeed in this world.

Bhagavadgita 6-41, श्रीमद्भगवद्गीता ६-४१

श्लोकः
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।।६-४१।।

सन्धि विग्रहः
प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः।
शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते।।६-४१।।

श्लोकार्थः
योग-भ्रष्टः पुन्य-कृताम् लोकान् प्राप्य, (तत्र)
शाश्वतीः समाः उषित्वा, शुचीनाम् श्रीमताम् गेहे अभिजायते।

शब्दार्थः
6.41 प्राप्य=after achieving पुण्य-कृताम्=of those who performed pious activities लोकान्=planetsउषित्वा=after dwelling शाश्वतीः=many समाः=years शुचीनाम्=of the pious श्रीमताम्=of the prosperous गेहे=in the house योग-भ्रष्टः=one who has fallen from the path of self-realization अभिजायते=takes his birth

Meaning
6.41: Having attained to the world of those who performed pious activities and living there for many years, the unrealized or fallen yogi takes birth in the house of the ritually pure, the pious, and the prosperous.

Bhagavadgita 6-40, श्रीमद्भगवद्गीता ६-४०

श्लोकः
श्रीभगवानुवाच।
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते।
न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति।।६-४०

सन्धि विग्रहः
पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते।
न हि कल्याण-कृत् कश्चित् दुर्गतिम् तात गच्छति।।६-४०।।

श्लोकार्थः
हे पार्थ! न इह न एव (च) अमुत्र) तस्य विनाशः विद्यते।
हे तात! हि कश्चित् कल्याण-कृत् दुर्गतिम् न गच्छति।

शब्दार्थः
6.40 पार्थ=O son of Pritha न एव=never is it so इह=in this material world न=never अमुत्र=in the next lifeविनाशः=destruction तस्य=his विद्यते=exists न=never हि=certainly कल्याण-कृत्=one who is engaged in auspicious activities कश्चित्=anyone दुर्गतिम्to degradation तात=My friend गच्छति=goes

Meaning
6.40: Sri Bhagavan said:
O Son of Partha, neither here, nor hereafter (the other world), destruction exists for him. Never misfortune comes to the one who does good works (kalyānakrt, auspicious activities).

Bhagavadgita 6-39, श्रीमद्भगवद्गीता ६-३९

श्लोकः
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते।।६-३९।।

सन्धि विग्रहः
एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः।
त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते।।६-३९।।

श्लोकार्थः
हे कृष्ण! मे एतत् संशयम् अशेषतः छेत्तुम् अर्हसि;
हि त्वत् अन्यः अस्य संशयस्य छेत्ता न उपपद्यते।

शब्दार्थः
6.39 एतत्=this is मे=my संशयम्=doubt कृष्ण=O Krishna छेत्तुम्=to dispel अर्हसि=you are requestedअशेषतः=completely त्वत्=than you अन्यः=other संशयस्य=of the doubt अस्य=this छेत्ता=remover न=never हि=certainly उपपद्यते=is to be found

Meaning
6.39: O Krishna, You are worthy of and obligated to remove this doubt of mine completely because no one other than You is proven remover of this doubt.

Bhagavadgita 6-38, श्रीमद्भगवद्गीता ६-३८

श्लोकः
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि।।६-३८।।

सन्धि विग्रहः
कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति।
अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः यथि।।६-३८।।

श्लोकार्थः
हे महाबाहो! ब्रह्मणः पथि अप्रतिष्ठः विमूढः उभय-विभ्रष्टः
छिन्न-अभ्रम् इव न नश्यति कच्चित्?

शब्दार्थः
6.38 कच्चित्=whether न=not उभय=both विभ्रष्टः=deviated from छिन्न=torn अभ्रम्=cloud इव=like नश्यति=perishes अप्रतिष्ठः=without any position महाबाहो=O mighty-armed Krishna विमूढः=bewilderedब्रह्मणः=of transcendence यथि=on the path

Meaning
6.38: Having lost both (paths of Karma and Yoga), does he not perish like a riven cloud O Krishna, without support, and bewildered on the path to Brahman?